Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 9 / Mantra 18

40 Mantra
9/18
Devata- बृहस्पतिर्देवता Rishi- वसिष्ठ ऋषिः Chhand- निचृत् त्रिष्टुप्, Swara- निषादः
Mantra with Swara
वाजे॑वाजेऽवत वाजिनो नो॒ धने॑षु विप्राऽअमृताऽऋतज्ञाः। अ॒स्य मध्वः॑ पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानैः॑॥१८॥

वाजे॑वाज॒ इति॒ वाजे॑ऽवाजे। अ॒व॒त॒। वा॒जि॒नः। नः॒। धने॑षु। वि॒प्राः॒। अ॒मृ॒ताः॒। ऋ॒त॒ज्ञा॒ इत्यृ॑तऽज्ञाः। अ॒स्य। मध्वः॑। पि॒ब॒त॒। मा॒दय॑ध्वम्। तृ॒प्ताः। या॒त॒। प॒थिभि॒रिति॑ प॒थिऽभिः॑। दे॒व॒यानै॒रिति॑ देव॒यानैः॑ ॥१८॥

Mantra without Swara
वाजेवाजे वत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः । अस्य मध्वः पिबत मादयध्वन्तृप्ता यात पथिभिर्देवयानैः ॥

वाजेवाज इति वाजेऽवाजे। अवत। वाजिनः। नः। धनेषु। विप्राः। अमृताः। ऋतज्ञा इत्यृतऽज्ञाः। अस्य। मध्वः। पिबत। मादयध्वम्। तृप्ताः। यात। पथिभिरिति पथिऽभिः। देवयानैरिति देवयानैः॥१८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(वाजेवाजे) सङ्ग्रामे सङ्ग्रामे (अवत) पालयत (वाजिनः) वेगवन्तः (नः) अस्मान् (धनेषु) (विप्राः) विद्यासुशिक्षाजातप्रज्ञाः (अमृताः) स्वस्वरूपेण नाशरहिताः प्राप्तजीवन्मुक्तिसुखाः (ऋतज्ञाः) ये ऋतं सत्यं जानन्ति ते (अस्य) प्रत्यक्षस्य (मध्वः) मधुनो मधुरस्य रसस्य, अत्र कर्मणि षष्ठी (पिबत) (मादयध्वम्) हृष्यत (तृप्ताः) प्रीणिताः (यात) गच्छत (पथिभिः) मार्गैः (देवयानैः) देवा विद्वांसो यान्ति यैर्धर्म्यैः। अयं मन्त्रः (शत॰५। १। ५। २४) व्याख्यातः॥१८॥
Essence
राजपुरुषैः वेदादीनि शास्त्राण्यधीत्य सुशिक्षया यथार्थं बोधं प्राप्य धार्म्मिकाणां विदुषां मार्गेण सदा गन्तव्यम्, नेतरेषाम्। शरीरात्मबलपालनेनैव सततमानन्दितव्यम्, प्रजाजनाः स्वधनैरेतान् सततं तर्पयन्तु॥१८॥
Subject
अथैते परस्परस्मिन् कथं वर्तेरन्नित्युपदिश्यते॥
Anvaya
हे ऋतज्ञा अमृता वाजिनो विप्राः! यूयं वाजेवाजे नोऽवत। अस्य मध्वः पिबताऽस्माकं धनैस्तृप्ताः सन्तो मादयध्वम्। देवयानैः पथिभिः सततं यात॥१८॥