Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 9 / Mantra 17

40 Mantra
9/17
Devata- बृहस्पतिर्देवता Rishi- नाभानेदिष्ठ ऋषिः Chhand- जगती, Swara- निषादः
Mantra with Swara
ते नो॒ऽअर्व॑न्तो हवन॒श्रुतो॒ हवं॒ विश्वे॑ शृण्वन्तु वा॒जिनो॑ मि॒तद्र॑वः। स॒ह॒स्र॒सा मे॒धसा॑ता सनि॒ष्यवो॑ म॒हो ये धन॑ꣳ समि॒थेषु॑ जभ्रि॒रे॥१७॥

ते। नः॒। अर्व॑न्तः। ह॒व॒न॒श्रुत॒ इति॑ हवन॒ऽश्रुतः॑। हव॑म्। विश्वे॑ शृ॒ण्व॒न्तु॒। वा॒जि॑नः। मितद्र॑व॒ इति॑ मि॒तऽद्र॑वः। स॒ह॒स्र॒सा इति॑ स॒हस्र॒ऽसाः। मे॒धसा॒तेति॑ मे॒धऽसा॑ता। स॒नि॒ष्यवः॑। स॒हः। ये। धन॑म्। स॒मि॒थेष्विति॑ सम्ऽइ॒थेषु॒। ज॒भ्रि॒रे ॥१७॥

Mantra without Swara
ते नोऽअर्वन्तो हवनश्रुतो हवँविश्वे शृण्वन्तु वाजिनो मितद्रवः । सहस्रसा मेधसाता सनिष्यवो महो ये धनँ समिथेषु जभ्रिरे ॥

ते। नः। अर्वन्तः। हवनश्रुत इति हवनऽश्रुतः। हवम्। विश्वे शृण्वन्तु। वाजिनः। मितद्रव इति मितऽद्रवः। सहस्रसा इति सहस्रऽसाः। मेधसातेति मेधऽसाता। सनिष्यवः। सहः। ये। धनम्। समिथेष्विति सम्ऽइथेषु। जभ्रिरे॥१७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(ते) (नः) अस्माकम् (अर्वन्तः) जानन्तः (हवनश्रुतः) ये हवनानि ग्राह्याणि शास्त्राणि शृण्वन्ति ते (हवम्) अध्ययनाध्यापनजन्यं बोधशब्दसमूहमर्थिप्रत्यर्थिनां विवादं च (विश्वे) सर्वे विद्वांसः (शृण्वन्तु) (वाजिनः) प्रशस्तप्रज्ञाः (मितद्रवः) ये मितं शास्त्रप्रमितं विषयं द्रवन्ति ते (सहस्रसाः) ये सहस्रं विद्याविषयान् सनन्ति ते (मेधसाता) मेधानां सङ्गमानां सातिर्दानं येषु, अत्र सप्तमीबहुवचनस्य सुपां सुलुक्। (अष्टा॰७।१।३९) इति डादेशः (सनिष्यवः) आत्मनः सनिं संविभागमिच्छवः। सनिशब्दात् क्यचि लालसायां सुक् तत उः (महः) महत् (ये) (धनम्) श्रियम् (समिथेषु) सङ्ग्रामेषु। समिथ इति सङ्ग्रामनामसु पठितम्। (निघं॰२।१७) (जभ्रिरे) भरेयुः। अत्राभ्यासस्य वर्णव्यत्ययेन बस्य जः। अयं मन्त्रः (शत॰५। १। ५। २३) व्याख्यातः॥१७॥
Essence
ये इमे राजपुरुषा अस्माकं सकाशात् करं गृह्णन्ति, तेऽस्मान् सततं रक्षन्तु, नोचेन्मा गृह्णन्तु, वयमपि तेभ्यः करं नैव दद्याम। अतः प्रजारक्षयाणायैव करदानं दुष्कर्मिभिः सह योद्धुं च नान्यदर्थमिति निश्चयः॥१७॥
Subject
प्रजाजनाः स्वरक्षार्थमेव करं दद्युस्तदर्थमेव राजजना गृह्णन्तु नान्यथेत्याह॥
Anvaya
येऽर्वन्तो हवनश्रुतो वाजिनो मितद्रवः सहस्रसाः सनिष्यवो राजजना मेधसाता समिथेषु नो महो धनं जभ्रिरे, ते विश्वेऽस्माकं हवं शृण्वन्तु॥१७॥