Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 9 / Mantra 16

40 Mantra
9/16
Devata- बृहस्पतिर्देवता Rishi- वसिष्ठ ऋषिः Chhand- भूरिक पङ्क्ति, Swara- पञ्चमः
Mantra with Swara
शन्नो॑ भवन्तु वा॒जिनो॒ हवे॑षु दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः। ज॒म्भय॒न्तोऽहिं॒ वृक॒ꣳ रक्षा॑सि॒ सने॑म्य॒स्मद्यु॑यव॒न्नमी॑वाः॥१६॥

शम्। नः॒। भ॒व॒न्तु॒। वा॒जिनः॑। हवे॑षु। दे॒वता॒तेति॑ दे॒वऽताता॑। मि॒तद्र॑व॒ इति॑ मि॒तऽद्र॑वः। स्व॒र्का इति॑ सुऽअ॒र्काः। ज॒म्भय॑न्तः। अहि॑म्। वृक॑म्। रक्षा॑सि। सने॑मि। अ॒स्मत्। यु॒य॒व॒न्। अमी॑वाः ॥१६॥

Mantra without Swara
शन्नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः । जम्भयन्तो हिँ वृकँ रक्षाँसि सनेम्यस्मद्युयवन्नमीवाः ॥

शम्। नः। भवन्तु। वाजिनः। हवेषु। देवतातेति देवऽताता। मितद्रव इति मितऽद्रवः। स्वर्का इति सुऽअर्काः। जम्भयन्तः। अहिम्। वृकम्। रक्षासि। सनेमि। अस्मत्। युयवन्। अमीवाः॥१६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(शम्) सुखम् (नः) अस्माकम् (भवन्तु) (वाजिनः) प्रशस्तयुद्धविद्याविदः सुशिक्षितास्तुरङ्गा (हवेषु) सङ्ग्रामेषु (देवताता) देवानां विदुषां कर्मसु। अत्र देवात्तातिल्। (अष्टा॰४।४।१४२) सुपां सुलुक्॰। (अष्टा॰७।१।३९) इति डादेशश्च (मितद्रवः) ये परिमितं द्रवन्ति गच्छन्ति ते (स्वर्काः) शोभनोऽर्कोऽन्नं सत्कारो वा येषान्ते। अर्क इत्यन्ननामसु पठितम्। (निघं॰२।७) (जम्भयन्तः) गात्राणि विनमयन्तः (अहिम्) मेघमिव चेष्टमानमुन्नतम् (वृकम्) चोरम् (रक्षांसि) हिंसकान् दस्यून् (सनेमि) सनातनम्। सनेमीति पुराणनामसु पठितम्। (निघं॰३।१७) (अस्मत्) (युयवन्) युवन्तु पृथक् कुर्वन्तु। अत्र लेटि शपः श्लुः (अमीवाः) ये रोगवद्वर्त्तमानाः शत्रवस्तान्। अयं मन्त्रः (शत॰५। १। ५। २२) व्याख्यातः॥१६॥
Essence
ये श्रेष्ठाः प्रजापालने व्याधिवच्छत्रूणां विनाशका न्यायकारिणो राजजनाः सन्ति, त एव सर्वेषां सुखं कर्तुं शक्नुवन्ति॥१६॥
Subject
के प्रजापालने शत्रुविनाशने च शक्तिमन्तो भवन्तीत्याह॥
Anvaya
ये मितद्रवः स्वर्का अहिं वृकं रक्षांसि च जम्भयन्तो वाजिनो वीरा नो देवताता हवेषु सनेमि शम्भवन्तु, तेऽस्मदमीवा इव वर्त्तमानानरीन् युयवन्॥१६॥