Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 9 / Mantra 13

40 Mantra
9/13
Devata- सविता देवता Rishi- बृहस्पतिर्ऋषिः Chhand- निचृत् अति जगती, Swara- निषादः
Mantra with Swara
दे॒वस्या॒हꣳ स॑वि॒तुः स॒वे स॒त्यप्र॑सवसो॒ बृह॒स्पते॑र्वाज॒जितो॒ वाजं॑ जेषम्। वाजि॑नो वाज॒जि॒तोऽध्व॑न स्कभ्नु॒वन्तो॒ योज॑ना॒ मिमा॑नाः॒ काष्ठां॑ गच्छत॥१३॥

दे॒वस्य॑। अ॒हम्। स॒वि॒तुः। स॒वे। स॒त्यप्र॑सव॒ इति॑ स॒त्यऽप्र॑सवः। बृह॒स्पतेः॑। वा॒ज॒जित॒ इति॑ वाज॒ऽजितः॑। वाज॑म्। जे॒ष॒म्। वाजि॑नः। वा॒ज॒जित॒ इति॑ वाज॒ऽजितः॑। अध्व॑नः। स्क॒भ्नु॒वन्तः॑। योज॑नाः। मिमा॑नाः। काष्ठा॑म्। ग॒च्छ॒त॒ ॥१३॥

Mantra without Swara
देवस्याहँ सवितुः सवे सत्यप्रसवसो बृहस्पतेर्वाजजितो वाजञ्जेषम् । वाजिनो वाजजितो ध्वन स्कभ्नुवन्तो योजना मिमानाः काष्ठाङ्गच्छत ॥

देवस्य। अहम्। सवितुः। सवे। सत्यप्रसव इति सत्यऽप्रसवः। बृहस्पतेः। वाजजित इति वाजऽजितः। वाजम्। जेषम्। वाजिनः। वाजजित इति वाजऽजितः। अध्वनः। स्कभ्नुवन्तः। योजनाः। मिमानाः। काष्ठाम्। गच्छत॥१३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(देवस्य) सर्वप्रकाशस्य जगदीश्वरस्य (अहम्) शरीरात्मबलयुक्तः सेनापतिः (सवितुः) सकलैश्वर्य्यस्य (सवे) उत्पादितेऽस्मिन्नैश्वर्ये (सत्यप्रसवसः) सत्यानि प्रसवांसि जगत्स्थानि कारणरूपेण नित्यानि यस्य तस्य (बृहस्पतेः) वेदवाण्याः पालकस्य (वाजजितः) सङ्ग्रामं विजयमानस्य (वाजम्) सङ्ग्रामम् (जेषम्) जयेयम्, लेडुत्तमैकवचने प्रयोगः (वाजिनः) विज्ञानवेगयुक्ताः (वाजजितः) सङ्ग्रामं जेतुं शीलाः (अध्वनः) शत्रोर्मार्गान् (स्कभ्नुवन्तः) प्रतिष्टम्भनं कुर्वन्तः (योजना) योजनानि बहून् क्रोशान् (मिमानाः) शत्रून् प्रक्षेपमाणाः (काष्ठाम्) दिशम् (गच्छत)। अयं मन्त्रः (शत॰५। १। ५। १५-१७) व्याख्यातः॥१३॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। योद्धारः सेनाऽध्यक्षसहायपालनाभ्यामेव शत्रून् जेतुं शक्नुवन्ति। शत्रूणां मार्गान् प्रतिबद्धुं च प्रभवन्ति, यस्यां दिशि शत्रवो विकुर्वते, तत्र तान् वशं नयेयुः॥१३॥
Subject
राजपुरुषैर्धार्मिकजनानामनुकरणं कर्त्तव्यं नेतरेषामित्याह॥
Anvaya
हे वीराः! यथाऽहं सत्यप्रसवसः सवितुर्देवस्य वाजजितो बृहस्पतेः सवे वाजं जेषम्, तथा यूयमपि जयत। हे वाजिनो वाजजितो जना! यथा यूयं योजना मिमाना अध्वनः स्कभ्नुवन्तः काष्ठां गच्छत, तथा वयमपि गच्छेम॥१३॥