Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 8 / Mantra 9

63 Mantra
8/9
Devata- गृहपतयो विश्वेदेवा देवताः Rishi- भरद्वाज ऋषिः Chhand- प्राजापत्या गायत्री,आर्षी उष्णिक्,स्वराट आर्षी पङ्क्ति, Swara- पञ्चमः
Mantra with Swara
उ॒प॒या॒मगृ॑हीतोऽसि॒ बृह॒स्पति॑सुतस्य देव सोम त॒ऽइन्दो॑रिन्द्रि॒याव॑तः॒ पत्नी॑वतो॒ ग्रहाँ॑२ऽऋध्यासम्। अ॒हं प॒रस्ता॑द॒हम॒वस्ताद् यद॒न्तरि॑क्षं॒ तदु॑ मे पि॒ताभू॑त्। अ॒हꣳ सूर्य॑मुभ॒यतो॑ ददर्शा॒हं दे॒वानां॑ पर॒मं गुहा॒ यत्॥९॥

उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मगृ॑हीतः। अ॒सि॒। बृह॒स्पति॑सुत॒स्येति॒ बृह॒स्पति॑ऽसुतस्य। दे॒व॒। सो॒म॒। ते॒। इन्दोः॑। इ॒न्द्रि॒याव॑तः। इ॒न्द्रि॒यव॑त॒ इती॑न्द्रि॒यऽव॑तः। पत्नी॑वत॒ इति॒ पत्नी॑ऽवतः। ग्रहा॑न्। ऋ॒ध्या॒स॒म्। अ॒हम्। प॒रस्ता॑त्। अ॒हम्। अ॒वस्ता॑त्। यत्। अ॒न्तरिक्ष॑म्। तत्। ऊँ॒ऽइत्यूँ॑। मे॒। पि॒ता। अ॒भू॒त्। अ॒हम्। सू॑र्य्यम्। उ॒भ॒यतः॑। द॒द॒र्श॒। अ॒हम्। दे॒वाना॑म्। प॒र॒मम्। गुहा॑। यत् ॥९॥

Mantra without Swara
उपयामगृहीतो सि बृहस्पतिसुतस्य देव सोम त इन्दोरिन्द्रियावतं पत्नीवतो ग्रहाँ ऋध्यासम् । अहम्परस्तादहमवस्ताद्यदन्तरिक्षन्तदु मे पिताभूत् । अहँ सूर्यमुभयतो ददर्शाहन्देवानां परमङ्गुहा यत् ॥

उपयामगृहीत इत्युपयामगृहीतः। असि। बृहस्पतिसुतस्येति बृहस्पतिऽसुतस्य। देव। सोम। ते। इन्दोः। इन्द्रियावतः। इन्द्रियवत इतीन्द्रियऽवतः। पत्नीवत इति पत्नीऽवतः। ग्रहान्। ऋध्यासम्। अहम्। परस्तात्। अहम्। अवस्तात्। यत्। अन्तरिक्षम्। तत्। ऊँऽइत्यूँ। मे। पिता। अभूत्। अहम्। सूर्य्यम्। उभयतः। ददर्श। अहम्। देवानाम्। परमम्। गुहा। यत्॥९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(उपयामगृहीतः) (असि) (बृहस्पतिसुतस्य) बृहत्या वेदवाण्याः पतेः पालकस्य पुत्रस्य (देव) कमनीयतम (सोम) ऐश्वर्य्यसम्पन्न (ते) तव (इन्दोः) सोमगुणसम्पन्नस्य (इन्द्रियावतः) बहुधनयुक्तस्य। इन्द्रियमिति धननामसु पठितम्। (निघं॰२।१०) (पत्नीवतः) प्रशस्ता यज्ञसम्बन्धिनी जाया यस्य (ग्रहान्) गृह्यन्ते स्वीक्रियन्ते विवाहकाले नियतशिक्षाविषया ये तान् (ऋध्यासम्) वर्द्धिषीय (अहम्) (परस्तात्) उत्तरस्मात् (अहम्) (अवस्तात्) अर्वाचीनात् समयात् (यत्) (अन्तरिक्षम्) अन्तरं क्षयमन्तःकरणे क्षयरहितं विज्ञानम् (तत्) (उ) वितर्के (मे) मम (पिता) पालको जनकः (अभूत्) भवति। वर्त्तमाने लट् उक्तपूर्वापरभावतः (अहम्) (सूर्यम्) चराचरात्मानमीश्वरम् (उभयतः) (ददर्श) दृष्टवान् दृष्टवती चास्मि (अहम्) (देवानाम्) विदुषाम् (परमम्) अत्युत्तमम् (गुहा) गुह्यन्ते संव्रियन्ते सकला विद्या यया बुद्ध्या तस्याम्। अत्र सुपां सुलुक्। (अष्टा॰७।१।३९) इति ङेर्लुक् (यत्)। अयं मन्त्रः (शत॰ ४। ४। २। १२-१४) व्याख्यातः॥९॥
Essence
स्त्रीपुरुषौ परस्परं विवाहात् प्ूर्वं सम्यक् परीक्षां कृत्वा तुल्यगुणकर्म्मस्वभावरूपबलारोग्य- पुरुषार्थविद्यायुक्तौ स्वयंवरविधानेन विवाहं विधायेत्थं प्रयतेताम्, यतो धर्म्मार्थकाममोक्षाणां वृद्धि प्राप्नुयाताम्। यस्य मातापितरौ विद्वांसौ न स्याताम्, तयोरपत्यान्यप्यत्युत्तमानि भवितुं न शक्नुवन्ति। अतः पूर्णविद्यासुशिक्षौ भूत्वैव गृहाश्रममारभेताम्॥९॥
Subject
पुनर्गार्हस्थ्यधर्म्ममाह॥
Anvaya
हे सोम देव! यस्त्वम्मया कुमार्य्योपयामगृहीतोऽसि, तस्येन्दोरिन्द्रियावतः पत्नीवतो बृहस्पतिसुतस्य ते तव गृहान् प्राप्याहम्परस्तादवस्तादृध्यासं यद्देवानां गुहास्थितमन्तरिक्षं विज्ञानमन्वेमि, तत्त्वमपि प्राप्नुहि, यो मे मम पिता पालकोऽध्यापको वा विद्वानभूत् तत्सकाशात् पूर्णो विद्यां प्राप्याहं यं परमं सूर्य्यमुभयतो ददर्श तं त्वमपि पश्य॥९॥