Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 8 / Mantra 60

63 Mantra
8/60
Devata- विश्वेदेवा देवताः Rishi- वसिष्ठ ऋषिः Chhand- स्वराट ब्राह्मी त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
दे॒वान् दिव॑मगन् य॒ज्ञस्ततो॑ मा॒ द्रवि॑णमष्टु मनु॒ष्यान॒न्तरि॑क्षमगन् य॒ज्ञस्ततो॑ मा॒ द्रवि॑णमष्टु पि॒तॄन् पृ॑थि॒वीम॑गन् य॒ज्ञस्ततो॑ मा॒ द्रवि॑णमष्टु॒ यं कं च॑ लो॒कमग॑न् य॒ज्ञस्ततो॑ मे भ॒द्रम॑भूत्॥६०॥

दे॒वान्। दिव॑म्। अ॒ग॒न्। य॒ज्ञः। ततः॑। मा॒। द्रवि॑णम्। अ॒ष्टु॒। म॒नु॒ष्या᳖न्। अ॒न्तरि॑क्षम्। अ॒ग॒न्। य॒ज्ञः। ततः॑। मा॒। द्रवि॑णम्। अ॒ष्टु॒। पि॒तॄन्। पृ॒थि॒वीम्। अ॒ग॒न्। य॒ज्ञः। ततः॑। मा॒। द्रवि॑णम्। अ॒ष्टु॒। यम्। कम्। च॒। लो॒कम्। अ॒ग॒न्। य॒ज्ञः। ततः॑। मे॒। भ॒द्रम्। अ॒भू॒त् ॥६०॥

Mantra without Swara
देवान्दिवमगन्यज्ञस्ततो मा द्रविणमष्टु मनुष्यानन्तरिक्षमगन्यज्ञस्ततो मा द्रविणमष्टु पितऋृन्पृथिवीमगन्यज्ञस्ततो मा द्रविणमष्टु यङ्कञ्च लोकमगन्यज्तो मे भद्रमभूत् ॥

देवान्। दिवम्। अगन्। यज्ञः। ततः। मा। द्रविणम्। अष्टु। मनुष्यान्। अन्तरिक्षम्। अगन्। यज्ञः। ततः। मा। द्रविणम्। अष्टु। पितॄन्। पृथिवीम्। अगन्। यज्ञः। ततः। मा। द्रविणम्। अष्टु। यम्। कम्। च। लोकम्। अगन्। यज्ञः। ततः। मे। भद्रम्। अभूत्॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(देवान्) दिव्यभोगान् (दिवम्) विद्याप्रकाशम् (अगन्) प्राप्नुवन्ति, अत्र लिङर्थे लुङ् (यज्ञः) पूर्वोक्तस्सर्वैः सङ्गमनीयः (ततः) तस्मात् (मा) माम् (द्रविणम्) विद्यादिकम् (अष्टु) प्राप्नोतु (मनुष्यान्) (अन्तरिक्षम्) मेघमण्डलम् (अगन्) (यज्ञः) (ततः) (मा) (द्रविणम्) धनादिकम् (अष्टु) (पितॄन्) ऋतून् (पृथिवीम्) (अगन्) (यज्ञः) (ततः) (मा) (द्रविणम्) प्रत्युत सुखकरम् (अष्टु) (यम्) (कम्) (च) (लोकम्) (अगन्) गच्छन्तु (यज्ञः) (ततः) (मे) मम (भद्रम्) भजनीयं कल्याणम् (अभूत्) भवतु। अयं मन्त्रः (शत॰ ४। ५। ७। ८) व्याख्यातः॥६०॥
Essence
यस्माद् यज्ञात् सर्वाणि सुखानि जायन्ते तस्यानुष्ठानं सर्वैर्मनुष्यैः कुतो न कार्य्यमिति॥६०॥
Subject
पुनस्तदेवाह॥
Anvaya
विद्वांसो यो यज्ञो दिवं देवान् प्रापयति तमगँस्ततो मा द्रविणमष्टु, यो यज्ञोऽन्तरिक्षं मनुष्यानाप्नोति तमगँस्ततो मा द्रविणमष्टु, यो यज्ञः पृथिवीं पितॄन् प्रापयति तमगँस्ततो मा द्रविणमष्टु, यो यज्ञो यं कं च लोकमगँस्ततो मे भद्रमभूत्॥६०॥