Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 8 / Mantra 55

63 Mantra
8/55
Devata- इन्द्रादयो देवताः Rishi- वसिष्ठ ऋषिः Chhand- आर्षी पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
इन्द्र॑श्च म॒रुत॑श्च क्र॒यायो॒पोत्थि॒तोऽसु॑रः प॒ण्यमा॑नो मि॒त्रः क्री॒तो विष्णुः॑ शिपिवि॒ष्टऽऊ॒रावास॑न्नो॒ विष्णु॑र्न॒रन्धि॑षः॥५५॥

इन्द्रः॑। च॒। म॒रुतः॑। च॒। क्र॒पाय॑। उ॒पोत्थि॑त॒ इत्यु॑प॒ऽउत्थि॑तः। असु॑रः। प॒ण्यमा॑नः। मि॒त्रः। क्री॒तः। विष्णुः॑। शि॒पि॒वि॒ष्ट इति॑ शिपिऽवि॒ष्टः। ऊ॒रौ। आस॑न्न॒ इत्याऽस॑न्नः। विष्णुः॑। न॒रन्धि॑षः ॥५५॥

Mantra without Swara
इन्द्रश्च मरुतश्च क्रयायोपोत्थितोसुरः पण्यमानः मित्रः क्रीतः विष्णुः शिपिविष्टऽऊरावासन्नो विष्णुर्नरन्धिषः प्रोह्यमाणः सोम॥

इन्द्रः। च। मरुतः। च। क्रयाय। उपोत्थित इत्युपऽउत्थितः। असुरः। पण्यमानः। मित्रः। क्रीतः। विष्णुः। शिपिविष्ट इति शिपिऽविष्टः। ऊरौ। आसन्न इत्याऽसन्नः। विष्णुः। नरन्धिषः॥५५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(इन्द्रः) विद्युत् (च) पृथिव्यादयः (मरुतः) वायवः (च) जलादिकम् (क्रयाय) व्यवहारसिद्धये (उपोत्थितः) समीपे प्रकाशित इव (असुरः) मेघः, असुर इति मेघनामसु पठितम्। (निघं॰१।१०) (पण्यमानः) स्तूयमानः (मित्रः) सुहृत् (क्रीतः) व्यवहृतः (विष्णुः) व्याप्तो धनञ्जयः (शिपिविष्टः) शिपिषु पदार्थेषु प्रविष्टः (ऊरौ) आच्छादने (आसन्नः) सर्वेषां निकटः (विष्णुः) हिरण्यगर्भः (नरन्धिषः) नरान् दिधेष्टि शब्दयति। अयं मन्त्रः (शत॰ १२। ३। १। ९-१३) व्याख्यातः॥५५॥
Essence
मनुष्यैः परब्रह्मप्रकाशितानामग्न्यादीनां पदार्थानां सकाशात् क्रियाकौशलेनोपयोगं गृहीत्वा गार्हस्थ्यव्यवहारास्साधनीयाः॥५५॥
Subject
पुनर्गार्हस्थ्यविषयमाह॥
Anvaya
हे मनुष्याः! यूयं विद्वद्भर्य्यो क्रयायेन्द्रो मरुतोऽसुरः पण्यमानो मित्रः शिपिविष्टो विष्णुर्नरन्धिषो विष्णुश्चैवासन्न उपोत्थितः क्रीतोऽस्ति, तं विजानीत॥५५॥