Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 8 / Mantra 53

63 Mantra
8/53
Devata- गृहपतयो देवताः Rishi- देवा ऋषयः Chhand- आर्षी अनुष्टुप्,आसुरी उष्णिक्,प्राजापत्या बृहती,विराट प्राजापत्या पङ्क्ति Swara- गान्धारः, ऋषणः, मध्यमः, पञ्चमः
Mantra with Swara
यु॒वं तमि॑न्द्रापर्वता पुरो॒युधा॒ यो नः॑ पृत॒न्यादप॒ तन्त॒मिद्ध॑तं॒ वज्रे॑ण॒ तन्त॒मिद्ध॑तम्। दू॒रे च॒त्ताय॑ छन्त्स॒द् गह॑नं॒ यदि॒न॑क्षत्। अ॒स्माक॒ꣳ शत्रू॒न् परि॑ शूर वि॒श्वतो॑ द॒र्मा द॑र्षीष्ट वि॒श्वतः॑। भूभुर्वः॒ स्वः सुप्र॒जाः प्र॒जाभिः॑ स्याम सु॒वीरा॑ वी॒रैः सु॒पोषाः॒ पोषैः॑॥५३॥

यु॒वम्। तम्। इ॒न्द्रा॒पर्व॒ता॒। पु॒रो॒युधेति॑ पुरः॒युधा॑। यः। नः॒। पृ॒त॒न्यात् अप॑। तन्त॒मिति॒ तम्ऽत॑म्। इत्। ह॒त॒म्। वज्रे॑ण। तन्त॒मिति॒ तम्ऽत॑म्। इत्। ह॒त॒म्। दू॒रे। च॒त्ताय॑। छ॒न्त्स॒त्। गह॑नम्। यत्। इन॑क्षत्। अ॒स्माक॑म्। शत्रू॑न्। परि॒। शू॒र॒। वि॒श्वतः॑। द॒र्म्मा। द॒र्षी॒ष्ट॒। वि॒श्वतः॑। भुरिति॒ भूः। भुव॒रि॒ति॒ भु॑वः। स्व᳖रिति॒ स्वः॑। सु॒प्र॒जा इति॑ सुऽप्र॒जाः। प्र॒जाभिः॑। स्या॒म॒। सु॒वीरा॒ इति॑ सु॒ऽवीराः॑। वी॒रैः। सु॒पोषा॒ इति॑ सु॒ऽपोषाः॑। पोषैः॑ ॥५३॥

Mantra without Swara
युवन्तमिन्द्रापर्वता पुरोयुधा यो नः पृतन्यादप तन्तमिद्धतँवज्रेण तन्तमिद्धतम् । दूरे चत्ताय च्छन्त्सद्गहनँ यदिनक्षत् । अस्माकँ शत्रून्परि शूर विश्वतो दर्मा दर्षीष्ट विश्वतः । भूर्भुवः स्वः सुप्रजाः प्रजाभिः स्याम सुवीरा वीरैः सुपोषाः पोषैः ॥

युवम्। तम्। इन्द्रापर्वता। पुरोयुधेति पुरःयुधा। यः। नः। पृतन्यात् अप। तन्तमिति तम्ऽतम्। इत्। हतम्। वज्रेण। तन्तमिति तम्ऽतम्। इत्। हतम्। दूरे। चत्ताय। छन्त्सत्। गहनम्। यत्। इनक्षत्। अस्माकम्। शत्रून्। परि। शूर। विश्वतः। दर्म्मा। दर्षीष्ट। विश्वतः। भूरिति भूः। भुवरिति भुवः। स्वरिति स्वः। सुप्रजा इति सुऽप्रजाः। प्रजाभिः। स्याम। सुवीरा इति सुऽवीराः। वीरैः। सुपोषा इति सुऽपोषाः। पोषैः॥५३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(युवम्) युवाम् (तम्) (इन्द्रापर्वता) सूर्य्यमेघसदृशौ सेनापतिसेनाजनौ, अत्र सुपां सुलुक्। (अष्टा॰७।१३९) इत्याकारः (पुरोयुधा) पूर्वं युध्येते तौ (यः) (नः) अस्माकम् (पृतन्यात्) पृतनां सेनामिच्छेत् (अप) (तन्तम्) शत्रुम् (इत्) एव (हतम्) हन्याताम् (वज्रेण) शस्त्रास्त्रविद्याबलेन (तन्तम्) (इत्) एव (हतम्) विनश्यतम् (दूरे) (चत्ताय) आह्लादाय (छन्त्सत्) ऊर्जेत् (गहनम्) कठिनं सैन्यम् (यत्) (इनक्षत्) व्याप्नुयात्, इनक्षदिति व्याप्तिकर्मसु पठितम्। (निघं॰२।१८) (अस्माकम्) (शत्रून्) (परि) सर्वतः (शूरः) शृणाति शत्रून् तत्सम्बुद्धौ (विश्वतः) सर्वतः (दर्म्मा) शत्रुविदारयिता (दर्षीष्ट) विदारय (विश्वतः) (भूः) भूमौ (भुवः) अन्तरिक्षम् (स्वः) सुखे (सुप्रजाः) प्रशस्तसन्तानाः (प्रजाभिः) (स्याम) (सुवीराः) बहुश्रेष्ठवीरयुक्ताः (वीरैः) उत्तमबलयुक्तैः पुरुषैः (सुपोषाः) अनुत्तमपुष्टयः (पोषैः) पुष्टिभिः। अयं मन्त्रः (शत॰ ४। ५। ११। १४) व्याख्यातः॥५३॥
Essence
यावत् सभापतिसेनापती प्रगल्भौ सन्तौ सर्वकार्येषु पुरस्सरौ न स्याताम्, तावत् सेनावीरा हर्षतो युद्धे न प्रवर्तन्ते, नह्येतेन कर्मणा विना कदाचिद् विजयो जायते, यावदजातशत्रवः सभापत्यादयो न जायेरन्न तावत् प्रजाः पालयितुं शक्नुवन्ति, न च सुप्रजाः सन्तः सुखिनः स्युः॥५३॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे पुरोयुधेन्द्रापर्वता युवं यो यो नः प्रतन्यात् तन्तं वज्रेणदपहतम्। तद्गहनं शत्रुदलमस्माकं सैन्यमिनक्षत्। यच्च छन्त्सत् तन्तं चत्तायानन्दायेद्धतं दूरे प्रापयतम्। हे शूर सभापते दर्म्मा! त्वमस्माकं शत्रून् विश्वतः परि दर्षीष्ट, यतो वयं प्रजाभिः सुप्रजा वीरैः सुवीराः पोषैस्सुपोषा विश्वतः स्याम॥५३॥