Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 8 / Mantra 5

63 Mantra
8/5
Devata- गृहपतयो देवताः Rishi- कुत्स ऋषिः Chhand- प्राजापत्या अनुष्टुप्,निचृत् आर्षी जगती Swara- निषादः, गान्धारः
Mantra with Swara
विव॑स्वन्नादित्यै॒ष ते॑ सोमपी॒थस्तस्मि॑न् मत्स्व। श्रद॑स्मै नरो॒ वच॑से दधातन॒ यदा॑शी॒र्दा दम्प॑ती वा॒मम॑श्नु॒तः। पुमा॑न् पु॒त्रो जा॑यते वि॒न्दते॒ वस्वधा॑ वि॒श्वाहा॑र॒पऽए॑धते गृ॒हे॥५॥

विव॑स्वन्। आ॒दि॒त्य॒। ए॒षः। ते॒। सो॒म॒पी॒थ इति॑ सोमऽपी॒थः। तस्मि॑न्। म॒त्स्व॒। श्रत्। अ॒स्मै॒। न॒रः। वच॑से। द॒धा॒त॒न॒। यत्। आ॒शी॒र्देत्या॑शीः॒ऽदा। दम्प॑ती॒ इति॒ दम्ऽप॑ती। वा॒मम्। अश्नु॒तः। पुमा॑न्। पु॒त्रः। जा॒य॒ते॒। वि॒न्दते॑। वसु॑। अध॑। वि॒श्वाहा॑। अ॒र॒पः। ए॒ध॒ते॒। गृ॒हे ॥५॥

Mantra without Swara
विवस्वन्नादित्यैष ते सोमपीथस्तस्मिन्मत्स्व श्रदस्मै नरो वचसे दधातन यदाशीर्दा दम्पती वाममश्नुतः । पुमान्पुत्रो जायते विन्दते वस्वधा विश्वाहारप एधते गृहे ॥

विवस्वन्। आदित्य। एषः। ते। सोमपीथ इति सोमऽपीथः। तस्मिन्। मत्स्व। श्रत्। अस्मै। नरः। वचसे। दधातन। यत्। आशीर्देत्याशीःऽदा। दम्पती इति दम्ऽपती। वामम्। अश्नुतः। पुमान्। पुत्रः। जायते। विन्दते। वसु। अध। विश्वाहा। अरपः। एधते। गृहे॥५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(विवस्वन्) विविधे स्थाने वसति तत् सम्बुद्धौ (आदित्य) अविनाशिस्वरूप विद्वन्! (एषः) गृहाश्रमः (ते) तव (सोमपीथः) सोमः पीयते यस्मिन् सः (तस्मिन्) गृहाश्रमे (मत्स्व) आनन्दितो भव (श्रत्) सत्यम्। श्रत् इति सत्यनामसु पठितम्। (निघं॰३।१०) (अस्मै) (नरः) ये नयन्ति तत् सम्बुद्धौ (वचसे) गृहाश्रमवाग्व्यवहाराय (दधातन) धरत। सुपां सुलुक्। (अष्टा॰७।१।३९) इति सुपो लुक्। (यत्) यस्मिन् (आशीर्दा) आशीरिच्छां ददाति सः (दम्पती) जायापती (वामम्) प्रशस्यं गृहाश्रमं धर्मम्। वाम इति प्रशस्यनामसु पठितम्। (निघं॰३।८) (अश्नुतः) व्याप्नुतः (पुमान्) (पुत्रः) पुन्नाम्नो वृद्धावस्थाजन्यदुःखात् त्रायते सः। अत्राह मनुः— पुन्नाम्नो नरकाद् यस्मात् त्रायते पितरं सुतः। तस्मात् पुत्र इति प्रोक्तः स्वयमेव स्वयंभुवा। (मनु॰९।१३८)(जायते) उत्पद्यते (विन्दते) लभते (वसु) धनम् (अध) अधेत्यनन्तरे। अत्र पृषोदरादित्वात् थस्य धः। निपातस्य च। (अष्टा॰६।३।१।१३६) दीर्घः। (विश्वाहा) बहूनि च तान्यहानि च, अत्र शेश्छन्दसि बहुलम्॥ इति लुक्। विश्वमिति बहुनामसु पठितम्। (निघं॰३।१) (अरपः) निष्पापः (एधते) वर्द्धते (गृहे)। अयं मन्त्रः (शत॰ ४। ३। ५। १६-२४ तथा ४। ४। ४। १-५) व्याख्यातः॥५॥
Essence
स्त्रीपुंसौ सुप्रेम्णा परस्परपरीक्षापूर्वकं स्वयंवरोद्वाहं विधाय, सत्याचरणेन सन्तानानुत्पाद्य महदैश्वर्यं लब्ध्वा सुखन्नित्यमुन्नीयेताम्॥५॥
Subject
पुनरपि गृहस्थधर्म्ममाह॥
Anvaya
हे विवस्वन्नादित्य! गृहिन्नेष ते तव सोमपीथो गृहाश्रमोऽस्ति, तस्मिँस्त्वं विश्वाहा मत्स्व हर्षितो भव। हे नरो गृहाश्रमस्था यूयमस्मै वचसे श्रद्दधातन, यत् यस्मिन् गृहे दम्पती वाममश्नुतस्तस्मिन् आशीर्दा अरपः पुमान् पुत्रो जायते, वसु विन्दते, अधैधते च॥५॥