Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 8 / Mantra 44

63 Mantra
8/44
Devata- इन्द्रो देवता Rishi- शास ऋषिः Chhand- निचृत् अनुष्टुप्,स्वराट आर्षी गायत्री Swara- गान्धारः, षड्जः
Mantra with Swara
वि न॑ऽइन्द्र॒ मृधो॑ जहि नी॒चा य॑च्छ पृतन्य॒तः। योऽअ॒स्माँ२ऽअ॑भि॒दास॒त्यध॑रं गमया॒ तमः॑। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा वि॒मृध॑ऽए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा वि॒मृधे॑॥४४॥

वि। नः॒। इ॒न्द्र॒। मृधः॑। ज॒हि॒। नी॒चा। य॒च्छ॒। पृ॒त॒न्य॒तः। यः। अ॒स्मान्। अ॒भि॒दास॒तीत्य॑भि॒ऽदास॑ति। अध॑रम्। ग॒म॒य॒। तमः॑। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। वि॒मृध॒ इति॑ वि॒ऽमृधे॑। ए॒षः। ते॒। योनिः॑। इन्द्रा॑य। त्वा॒। वि॒मृध॒ इति॑ वि॒ऽमृधे॑ ॥४४॥

Mantra without Swara
वि न ऽइन्द्र मृधो जहि नीचा यच्छ पृतन्यतः । यो अस्माँ अभिदासत्यधरङ्गमया तमः । उपयामगृहीतो सीन्द्राय त्वा विमृधे ऽएष ते योनिरिन्द्राय त्वा विमृधे ॥

वि। नः। इन्द्र। मृधः। जहि। नीचा। यच्छ। पृतन्यतः। यः। अस्मान्। अभिदासतीत्यभिऽदासति। अधरम्। गमय। तमः। उपयामगृहीत इत्युपयामऽगृहीतः। असि। विमृध इति विऽमृधे। एषः। ते। योनिः। इन्द्राय। त्वा। विमृध इति विऽमृधे॥४४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(वि) विशेषेण (नः) अस्माकम् (इन्द्र) सेनाध्यक्ष! (मृधः) शत्रून् (जहि) (नीचा) दुष्टकारिणः (यच्छ) निगृह्णीहि (पृतन्यतः) आत्मनः सेनामिच्छतः (यः) (अस्मान्) (अभिदासति) सर्वत उपक्षयति। दसु उपक्षये, अत्र वर्णव्यत्ययेनाकारस्य स्थान आकारः। (अधरम्) अधोगतिम् (गमय) अत्र संहितायाम्। (अष्टा॰६।३।११४) इति दीर्घः (तमः) अन्धकारम् (उपयामगृहीतः) सेनादिसामग्रीसङ्गृहीतः (असि) (इन्द्राय) ऐश्वर्य्यप्रदाय (त्वा) (विमृधे) विशिष्टा मृधः शत्रवो यस्मिंस्तस्मै संग्रामाय (एषः) (ते) (योनिः) (इन्द्राय) परमानन्दप्राप्तये (त्वा) त्वाम् (विमृधे) विगतत्रवे। अयं मन्त्रः (शत॰ ४। ५। ६। ४) व्याख्यातः॥४४॥
Essence
यो दुष्टकर्म्मशीलपुरुषोऽनेकधा बलमुन्नीय सर्वान् पीडयितुमिच्छति, तं राजा सर्वथा दण्डेयत्। यदि स प्रबलतरोपाधिशीलतां न त्यजेत्, तर्हि राष्ट्रादेनं दूरं गमयेद् विनाशयेद्वा॥४४॥
Subject
सिंहावलोकन्यायेन गृहस्थधर्म्मे राजपक्षे किंचिदाह॥
Anvaya
हे इन्द्र सेनापते! त्वं नोऽस्माकं विमृधो जहि, पृतन्यतो नीचा नीचान् यच्छ। यः शत्रुरस्मानभिदासति तं तमस्सूर्य्य इवाधरं गमय। यस्य ते तवैष योनिरस्ति, स त्वमस्माभिरुपयामगृहीतोऽसि, अत एवेन्द्राय विमृधे त्वां स्वीकुर्म्मो विमृध इन्द्राय त्वा नियोजयामश्च॥४४॥