Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 8 / Mantra 4

63 Mantra
8/4
Devata- आदित्यो गृहपतिर्देवताः Rishi- कुत्स ऋषिः Chhand- निचृत् जगती Swara- निषादः
Mantra with Swara
य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृड॒यन्तः॑। आ वो॒ऽर्वाची॑ सुम॒तिर्व॑वृत्याद॒ꣳहोश्चि॒द्या व॑रिवो॒वित्त॒रास॑दादि॒त्येभ्य॑स्त्वा॥४॥

य॒ज्ञः। दे॒वाना॑म्। प्रति॑। ए॒ति॒। सु॒म्नम्। आदि॑त्यासः। भव॑त। मृ॒ड॒यन्तः॑। आ। वः॒। अ॒र्वाची॑। सु॒म॒तिरिति॑ सुऽम॒तिः। व॒वृ॒त्या॒त्। अ॒होः। चि॒त्। या। व॒रि॒वो॒वित्त॒रेति॑ वरिवो॒वित्ऽत॑रा। अस॑त्। आ॒दि॒त्येभ्यः। त्वा॒ ॥४॥

Mantra without Swara
यज्ञो देवानाम्प्रत्येति सुम्नमादित्यासो भवता मृडयन्तः । आ वोर्वाची सुमतिर्ववृत्यादँहोश्चिद्या वरिवोवित्तरासदादित्येभ्यस्त्वा ॥

यज्ञः। देवानाम्। प्रति। एति। सुम्नम्। आदित्यासः। भवत। मृडयन्तः। आ। वः। अर्वाची। सुमतिरिति सुऽमतिः। ववृत्यात्। अहोः। चित्। या। वरिवोवित्तरेति वरिवोवित्ऽतरा। असत्। आदित्येभ्यः। त्वा॥४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(यज्ञः) स्त्रीपुरुषाभ्यां सङ्गमनीयः (देवानाम्) विदुषाम् (प्रति) प्रतीतम् (एति) प्रापयति (सुम्नम्) सुखम्। सुम्नमिति सुखनामसु पठितम्। (निघं॰३।६) (आदित्यासः) आदित्यवद्विद्यादिशुभगुणैः प्रकाशमानाः (भवत) (मृडयन्तः) सर्वान् सुखयन्तः (आ) (वः) युष्माकम् (अर्वाची) सुशिक्षाविद्याभ्यासात् पश्चाद् विज्ञानमञ्चति प्राप्नोत्यनया सा (सुमतिः) शोभना चाऽसौ मतिः (ववृत्यात्) वर्त्तताम्। अत्र बहुलं छन्दसि। (अष्टा॰२।४।७६) इति शपः श्लुर्व्यत्ययेन परस्मैपदञ्च। (अंहोः) सुखप्रापकस्य गृहाश्रमस्याऽनुष्ठानस्य (चित्) अपि (या) (वरिवोवित्तरा) वरिवः सत्यं व्यवहारं वेत्यनया साऽतिशयिता (असत्) भवेत्, लेट् प्रयोगोऽयम्। (आदित्येभ्यः) सर्वेभ्यो मासेभ्यः (त्वा) त्वाम्॥ अयं मन्त्रः (शत॰ ४। ३। ५। १५) व्याख्यातः॥४॥
Essence
विवाहं कृत्वा स्त्रीपुरुषाभ्यामाप्तानां विदुषां सङ्गाद्येन येन कर्मणा विद्यासुशिक्षाबुद्धिधनं सौहार्दं परोपकारश्च वर्द्धेत, तत्तदनुष्ठेयमिति॥४॥
Subject
पुनर्गृहाश्रमविषयमाह॥
Anvaya
हे आदित्यासः! यूयं देवानां वो युष्माकं यो गृहाश्रमाख्यो यज्ञः सुम्नं प्रत्येति, यांहोऽर्वाची वरिवोवित्तरा सुमतिराववृत्यात्। या त्वादित्येभ्यः प्राप्तोत्तमविद्याशिक्षाऽसत्, तया चिद् युक्त्या वा वां सदा मृडयन्तो भवत॥४॥