Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 8 / Mantra 39

63 Mantra
8/39
Devata- राजादयो गृहस्था देवताः Rishi- वैखानस ऋषिः Chhand- आर्षी गायत्री,आर्ची उष्णिक् Swara- षड्जः, ऋषभः
Mantra with Swara
उ॒त्तिष्ठ॒न्नोज॑सा स॒ह पी॒त्वी शिप्रे॑ऽअवेपयः। सोम॑मिन्द्र च॒मू सु॒तम्। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य॒ त्वौज॑सऽए॒ष ते॒ योनि॒रिन्द्रा॑य॒ त्वौज॑से। इन्द्रौ॑जि॒ष्ठौजि॑ष्ठ॒स्त्वं दे॒वेष्वस्योजि॑ष्ठो॒ऽहं म॑नु॒ष्येषु भृयासम्॥३९॥

उ॒त्तिष्ठ॒न्नित्यु॒त्ऽतिष्ठ॑न्। ओज॑सा। स॒ह। पी॒त्वी। शिप्रे॒ऽइति॒ शिप्रे॑। अ॒वे॒प॒यः॒। सोम॑म्। इ॒न्द्र॒। च॒मूऽइति॑ च॒मू। सु॒तम्। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। इन्द्रा॑य। त्वा॒। ओज॑से। ए॒षः। ते॒। योनिः॑। इन्द्रा॑य। त्वा॒। ओज॑से। इन्द्र॑। ओ॒जि॒ष्ठ॒। ओजि॑ष्ठः। त्वम्। दे॒वेषु॑। असि॑। ओजि॑ष्ठः। अ॒हम्। म॒नु॒ष्ये॒षु। भू॒या॒स॒म् ॥३९॥

Mantra without Swara
उत्तिष्ठन्नोजसा सह पीत्वी शिप्रे ऽअवेपयः । सोममिन्द्र चमूसुतम् । उपयामगृहीतो सीन्द्राय त्वौजसे ऽएष ते योनिरिन्द्राय त्वौजसे । इन्द्रौजिष्ठौजिष्ठस्त्वन्देवेष्वस्योजिष्ठो हम्मनुष्येषु भूयासम् ॥

उत्तिष्ठन्नित्युत्ऽतिष्ठन्। ओजसा। सह। पीत्वी। शिप्रेऽइति शिप्रे। अवेपयः। सोमम्। इन्द्र। चमूऽइति चमू। सुतम्। उपयामगृहीत इत्युपयामऽगृहीतः। असि। इन्द्राय। त्वा। ओजसे। एषः। ते। योनिः। इन्द्राय। त्वा। ओजसे। इन्द्र। ओजिष्ठ। ओजिष्ठः। त्वम्। देवेषु। असि। ओजिष्ठः। अहम्। मनुष्येषु। भूयासम्॥३९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(उत्तिष्ठन्) सद्गुणकर्मस्वभावेषूर्ध्वन्तिष्ठन् (ओजसा) प्रशस्तशरीरात्मसभासेनाबलेन (सह) (पीत्वी) पीत्वा। स्नात्व्यादयश्च। (अष्टा॰७।१।४९) इतीकारादेशः (शिप्रे) हनुप्रभृत्यङ्गानि, शिप्रे इत्युपलक्षणमन्येषाञ्च शिप्रे हनुनासिके। (निरु॰६।१७) (अवेपयः) वेपय, अत्र लोडर्थे लङ् (सोमम्) ऐश्वर्य्यं सोमवल्ल्यादिरसं वा (इन्द्र) ऐश्वर्य्याय द्रवन्, ऐश्वर्य्ये रममाण वा। इन्दवे द्रवतीति वेन्दौ रमत इति वा। (निरु॰१०।८) (चमू) सेनया, अत्र सुपां सुलुक॰। (अष्टा॰७।१।३९) इति तृतीयैकवचनस्य लुक् (सुतम्) सम्पादितम् (उपयामगृहीतः) (असि) (इन्द्राय) ऐश्वर्य्याय (त्वा) (ओजसे) पराक्रमाय (एषः) (ते) (योनिः) ऐश्वर्य्यकारणम् (इन्द्राय) परमैश्वर्य्यप्रदाय राज्याय (त्वा) (ओजसे) अनन्तपराक्रमाय (इन्द्र) दुःखविदारक विद्वन्! (ओजिष्ठ) अतिशयेनौजस्विन् (ओजिष्ठः) अतिपराक्रमी (त्वम्) (देवेषु) विजिगीषमाणेषु राजसु (असि) (ओजिष्ठः) अतिशयेन पराक्रमी (अहम्) (मनुष्येषु) (भूयासम्)। अयं मन्त्रः (शत॰ ४। ५। ४। १०) व्याख्यातः॥३९॥
Essence
राज्यपुरुषाणां योग्यमस्ति भोजनाच्छादनादिपरिकरैश्शरीरबलमुन्नयेयुर्व्यभिचारादिदोषेषु कथंचिन्न प्रवर्त्तेरन्, परमेश्वरोपासनं च यथोक्तव्यवहारेण कुर्य्युरिति॥३९॥
Subject
पुनस्तदेवाह॥
Anvaya
हे इन्द्र सभापते! त्वं चमू सुतं सोमं पीत्वी ओजसा सहोत्तिष्ठन् सन् युद्धादिकर्म्मसु शिप्रे अवेपयः। अस्माभिस्त्वमुपयामगृहीतोऽसि, ते तवैष योनिरस्त्यतस्त्वां स्वस्थतयेन्द्रायौजसे परिचरामः। ओजस इन्द्राय परमेश्वराय त्वा प्रणोदयामः। हे ओजिष्ठेन्द्र! यथा त्वं देवेष्वोजिष्ठोऽसि, तथाऽहम्मनुष्येष्वोजिष्ठो भूयासम्॥३९॥