Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 8 / Mantra 32

63 Mantra
8/32
Devata- दम्पती देवते Rishi- मेधातिथिर्ऋषिः Chhand- आर्षी गायत्री Swara- षड्जः
Mantra with Swara
म॒ही द्यौः पृ॑थि॒वी च॑ नऽइ॒मं य॒ज्ञं मि॑मिक्षताम्। पि॒पृ॒तां नो॒ भरी॑मभिः॥३२॥

म॒ही। द्यौः। पृ॒थि॒वी। च॒। नः॒। इ॒मम्। य॒ज्ञम्। मि॒मि॒क्ष॒ता॒म्। पि॒पृ॒ताम्। नः॒। भरी॑मभि॒रिति॒ भरी॑मऽभिः ॥३२॥

Mantra without Swara
मही द्यौः पृथिवी च न इमँयज्ञम्मिमिक्षताम् । पिपृतान्नो भरीमभिः ॥

मही। द्यौः। पृथिवी। च। नः। इमम्। यज्ञम्। मिमिक्षताम्। पिपृताम्। नः। भरीमभिरिति भरीमऽभिः॥३२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(मही) महती पूज्या (द्यौः) दिव्या पुरुषाकृतिः (पृथिवी) विस्तृतशीला क्षमाधारणादिशक्तिमती (च) (नः) अस्माकम् (इमम्) वर्त्तमानम् (यज्ञम्) विद्वत्पूज्यं गृहाश्रमम् (मिमिक्षताम्) सुखैः सेक्तुमिच्छताम् (पिपृताम्) पिपूर्त्तः (नः) अस्माकम् (भरीमभिः) धारणपोषणादिगुणयुक्तैर्व्यवहारैर्वा पदार्थैः सह। अयं मन्त्रः (शत॰ ४। ५। २। १८) व्याख्यातः॥३२॥
Essence
यथा सूर्य्यो जलाद्याकृष्य वर्षित्वा पाति, पृथिव्यादिपदार्थान् प्रकाशयति, तद्वदयम्पतिः सद्गुणान् पदार्थान् सङ्गृह्य तद्दानेन रक्षेत्, विद्यादिगुणन् प्रकाशयेत्। यथेयं पृथिवी सर्वान् प्राणिनो धृत्वा पालयति, तथेयं स्त्री गर्भादीन् धृत्वा पालयेत् एवं सहितौ भूत्वा स्वार्थं संसाध्य मनोवाक्कर्म्मभिरन्यान् सर्वान् प्राणिनः सततं सुखयेताम्॥३२॥
Subject
पुनर्गार्हस्थ्यकर्म्मोपदेशमाह॥
Anvaya
हे दम्पती! भवन्तौ मही द्यौः महान् प्रकाशमानः पतिः मही पृथिवी स्त्री च त्वं भरीमभिर्नोऽस्माकं चादन्येषामिमं यज्ञं मिमिक्षतां पिपृताञ्च॥३२॥