Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 8 / Mantra 31

63 Mantra
8/31
Devata- दम्पती देवते Rishi- गोतम ऋषिः Chhand- आर्षी गायत्री Swara- षड्जः
Mantra with Swara
मरु॑तो॒ यस्य॒ हि क्षये॑ पा॒था दि॒वो वि॑महसः। स सु॑गो॒पात॑मो॒ जनः॑॥३१॥

मरु॑तः। यस्य॑। हि। क्षये॑। पा॒थ। दि॒वः। वि॒म॒ह॒स॒ इति॑ विऽमहसः। सः। सु॒गो॒पात॑म॒ इति॑ सुऽगो॒पात॑मः। जनः॑ ॥३१॥

Mantra without Swara
मरुतो यस्य हि क्षये पाथा दिवो विमहसः । स सुगोपातमो जनः ॥

मरुतः। यस्य। हि। क्षये। पाथ। दिवः। विमहस इति विऽमहसः। सः। सुगोपातम इति सुऽगोपातमः। जनः॥३१॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(मरुतः) हिरण्यानि रूपाण्यृत्विजो विद्वांसश्च। मरुदिति हिरण्यनामसु पठितम्। (निघं॰१।२) रूपनामसु पठितम्। (निघं॰ ३। ७) ऋत्विङ्नामसु पठितम्। (निघं॰३।१) पदनामसु च। (निघं॰५।५) (यस्य) गृहस्थस्य (हि) खलु (क्षये) गृहे (पाथ) प्राप्नुत। द्व्यचोऽतस्तिङः। (अष्टा॰६।३।१३५) इति दीर्घः (दिवः) दिव्या गुणाः स्वभावाः क्रिया वा (विमहसः) विविधतया पूजनीयाः (सः) (सुगोपातमः) शोभनधर्म्मेण गां पृथिवीं वाचं वा पाति सोऽतिशयितः (जनः) प्रसिद्धः। अयं मन्त्रः (शत॰ ४। ५। २। १७) व्याख्यातः॥३१॥
Essence
नहि केनचित् मनुष्येण किल ब्रह्मचर्य्यसुशिक्षाविद्याशरीरात्मबलारोग्यपुरुषार्थैश्वर्य्यसज्जन- सङ्गालस्यत्यागयमनियमसेवनसुसहायैर्विना गृहाश्रमो धर्तुं शक्यः। नह्येतेन विना धर्मार्थकाममोक्षसिद्धिर्भवितुं योग्या, तस्मादयं सर्वैः प्रयत्नेन सेवितव्यः॥३१॥
Subject
पुनरपि गार्हस्थ्यधर्मविषयमाह॥
Anvaya
हे कृतविवाहा विमहस ऋत्विजो मरुतो गृहस्था! यूयं यस्य गृहस्थस्य क्षये गृहे हिरण्यानि सुरूपाणि दिवः पाथ स हि सुगोपातमो जनः सदा सेव्यः॥३१॥