Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 8 / Mantra 28

63 Mantra
8/28
Devata- दम्पती देवते Rishi- अत्रिर्ऋषिः Chhand- भूरिक् साम्नी उष्णिक्,प्राजापत्या अनुष्टुप्, Swara- ऋषभः, गान्धारः
Mantra with Swara
एज॑तु॒ दश॑मास्यो॒ गर्भो॑ ज॒रायु॑णा स॒ह। यथा॒यं वा॒युरेज॑ति॒ यथा॑ समु॒द्रऽएज॑ति। ए॒वायं दश॑मास्यो॒ऽअस्र॑ज्ज॒रायु॑णा स॒ह॥२८॥

एज॑तु। दश॑मास्य॒ इति॒ दश॑ऽमास्यः। गर्भः॑। ज॒रायु॑णा। स॒ह। यथा॑। अ॒यम्। वा॒युः। एज॑ति। यथा॑। स॒मु॒द्रः। एज॑ति। ए॒व। अ॒यम्। दश॑मास्य॒ इति॒ दश॑ऽमास्यः। अस्र॑त्। ज॒रायु॑णा। स॒ह ॥२८॥

Mantra without Swara
एजतु दशमास्यो गर्भा जरायुणा सह । यथायँवायुरेजति यथा समुद्र एजति । एवायन्दशमास्यो ऽअस्रज्जरायुणा सह ॥

एजतु। दशमास्य इति दशऽमास्यः। गर्भः। जरायुणा। सह। यथा। अयम्। वायुः। एजति। यथा। समुद्रः। एजति। एव। अयम्। दशमास्य इति दशऽमास्यः। अस्रत्। जरायुणा। सह॥२८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(एजतु) चलतु (दशमास्यः) दशसु मासेषु भवः (गर्भः) ग्रियते सिच्यते गृह्यते वा स गर्भः, गर्भो गृभेर्गृणात्यर्थे, गिरत्यनर्थानिति वा। यदा हि स्त्रीगुणान् गृह्णाति गुणाश्चास्या गृह्यन्ते [अथ गर्भो भवति᳕। (निरु॰१०।२३) (जरायुणा) आवरणेन (सह) (यथा) (अयम्) (वायुः) (एजति) कम्पते (यथा) (समुद्रः) उदधिः (एजति) वर्द्धते (एव) अवधारणार्थे (अयम्) वर्त्तमानः (दशमास्यः) (अस्रत्) स्रंसतोऽधः स्रवतु, लोडर्थे लङ् (जरायुणा) (सह)। अयं मन्त्रः (शत॰ ४। ५। २। ४-९) व्याख्यातः॥२८॥
Essence
ब्रह्मचर्य्येण शरीरपुष्टिमनःसन्तुष्टिविद्यावृद्धिसम्पन्नौ कृतविवाहौ दम्पती यत्नेन गर्भरक्षणं कुर्य्याताम्, यतः स दशमास्यो दशमासात् पूर्वं न स्खलेत्। यो हि दशमासादूर्ध्वं जायते, स प्रायशो बलबुद्धियुक्तो भवति, तस्मात् पूर्वमुत्पद्यते नायं तादृग्भवति॥२८॥
Subject
अथ गार्हस्थ्यधर्म्मे गर्भव्यवस्थामाह॥
Anvaya
हे दम्पती! यथायं वायुरेजति, यथा समुद्र एजति, तथा जरायुणा सह दशामास्यो गर्भ एजतु, क्रमेण वर्द्धमानोऽयं जरायुणा सह दशमास्य एवास्रत् स्रंसताम्॥२८॥