Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 8 / Mantra 24

63 Mantra
8/24
Devata- गृहपतिर्देवता Rishi- अत्रिर्ऋषिः Chhand- आर्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अ॒ग्नेरनी॑कम॒पऽआवि॑वेशा॒पां नपा॑त् प्रति॒रक्ष॑न्नसु॒र्यम्। दमे॑दमे स॒मि॑धं यक्ष्यग्ने॒ प्रति॑ ते जि॒ह्वा घृ॒तमुच्च॑रण्य॒त् स्वाहा॑॥२४॥

अ॒ग्नेः। अनी॑कम्। अ॒पः। आ। वि॒वे॒श॒। अ॒पाम्। नपा॑त्। प्र॒ति॒रक्ष॒न्निति॑ प्रति॒ऽरक्ष॑न्। अ॒सु॒र्य्य᳖म्। दमे॑दम॒ इति॒ दमे॑ऽदमे। स॒मिध॒मिति॑ स॒म्ऽइध॑म्। य॒क्षि॒। अ॒ग्ने॒। प्रति॑। ते॒। जि॒ह्वा। घृ॒तम्। उत्। च॒र॒ण्य॒त्। स्वाहा॑ ॥२४॥

Mantra without Swara
अग्नेरनीकमपऽआ विवेशापान्नपात्प्रतिरक्षन्नसुर्यम् । दमेदमे समिधँ यक्ष्यग्ने प्रति ते जिह्वा घृतमुच्चरण्यत्स्वाहा ॥

अग्नेः। अनीकम्। अपः। आ। विवेश। अपाम्। नपात्। प्रतिरक्षन्निति प्रतिऽरक्षन्। असुर्य्यम्। दमेदम इति दमेऽदमे। समिधमिति सम्ऽइधम्। यक्षि। अग्ने। प्रति। ते। जिह्वा। घृतम्। उत्। चरण्यत्। स्वाहा॥२४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अग्नेः) पावकस्य (अनीकम्) सैन्यमिव ज्वालासमूहम् (अपः) जलानि (आ) (विवेश) (अपाम्) आप्नुवन्ति याभिस्तासामुदकानाम् (नपात्) नाधःपतनशीलः (प्रति) (रक्षन्) पालयन् (असुर्य्यम्) असुरेषु मेघेषु प्राणक्रीडासाधनेषु भवं द्रव्यम् (दमेदमे) दाम्यन्ति जना यस्मिन् तस्मिन् गृहे गृहे। दम इति गृहनामसु पठितम्। (निघं॰३।४) वीप्सया द्वित्वम् (समिधम्) समिध्यते प्रकाशयतेऽर्थतत्त्वमनया क्रियया ताम् (यक्षि) यजसि सङ्गच्छसे। अत्र बहुलं छन्दसि। (अष्टा॰२।४।७३) इति शपो लुक् (अग्ने) विज्ञानयुक्त! (प्रति) (ते) तव (जिह्वा) रसेन्द्रियम् (घृतम्) आज्यम् (उत्) (चरण्यत्) चरणमिवाचरेत्। वा छन्दसि। (अष्टा॰भा॰वा॰१।४।९) इत्यत्राल्लोप ईत्वाऽभावश्च (स्वाहा) सत्यया क्रियया। अयं मन्त्रः (शत॰ ४। ४। ५। १२) व्याख्यातः॥२४॥
Essence
अग्निजले सर्वेषां सांसारिकपदार्थानां हेतू स्तः। अतो गृहस्थो विशेषतोऽनयोर्गुणान् ज्ञात्वा गृहस्थो सर्वाणि कार्य्याणि सत्यव्यवहारेण कुर्यात्॥२४॥
Subject
अथोभयेषां गृहस्थानामुपदेशमाह॥
Anvaya
हे गृहस्थ! त्वमग्नेरनीकमपश्चाविवेशापां न पात्वमसुर्यं प्रतिरक्षन् दमेदमे समिधं यक्षि, ते जिह्वा घृतमुत स्वाहोच्चरण्यत्॥२४॥