Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 8 / Mantra 2

63 Mantra
8/2
Devata- गृहपतिर्मघवा देवता Rishi- आङ्गिरस ऋषिः Chhand- भूरिक् पङ्क्ति, Swara- पञ्चमः
Mantra with Swara
क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे॑। उपो॒पेन्नु म॑घव॒न् भूय॒ऽइन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यतऽआदि॒त्येभ्य॑स्त्वा॥२॥

क॒दा। च॒न। स्त॒रीः। अ॒सि॒। न। इ॒न्द्र॒। स॒श्च॒सि॒। दा॒शुषे॑। उपो॒पेत्युप॑ऽउप। इत्। नु। म॒घ॒व॒न्निति॑ मघऽवन्। भूयः॑। इत्। नु। ते॒। दान॑म्। दे॒वस्य॑। पृ॒च्य॒ते॒। आ॒दि॒त्येभ्यः॑। त्वा॒ ॥२॥

Mantra without Swara
कदा चन स्तरीरसि नेन्द्र सश्चसि दाशुषे । उपोपेन्नु मघवन्भूय इन्नु ते दानन्देवस्य पृच्यतेऽआदित्येभ्यस्त्वा ॥

कदा। चन। स्तरीः। असि। न। इन्द्र। सश्चसि। दाशुषे। उपोपेत्युपऽउप। इत्। नु। मघवन्निति मघऽवन्। भूयः। इत्। नु। ते। दानम्। देवस्य। पृच्यते। आदित्येभ्यः। त्वा॥२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(कदा) कस्मिन् काले (चन) अपि (स्तरीः) स्वभावाच्छादकः संकुचितः (असि) भवसि (न) निषेधे (इन्द्र) परमैश्वर्य्यपते! (सश्चसि) प्राप्नोषि। सश्चतीति गतिकर्मसु पठितम्। (निघं॰२।१४) (दाशुषे) दानशीलाय (उपोप) सामीप्ये। उपर्य्यध्यधसः सामीप्ये। (अष्टा॰८।१।७) इति द्वित्वम्। (इत्) एव (नु) क्षिप्रम्। न्विति क्षिप्रनामसु पठितम्। (निघं॰२।१५) (मघवन्) प्रशंसितधनयुक्त (भूयः) अधिकम् (इत्) एव (नु) शीघ्रम् (ते) तव (दानम्) (देवस्य) विदुषः (पृच्यते) सम्बध्यते (आदित्येभ्यः) मासेभ्यः (त्वा) त्वां सुखदातारम्। अयं मन्त्रः (शत॰ ४। ३। ५। १०-११) व्याख्यातः॥२॥
Essence
विवाहकामनया युवत्या स्त्रिया यच्छलकपटाचरणरहितः सत्यभावप्रकाशक एकस्त्रीव्रतो जितेन्द्रिय उद्योगी धार्मिको दाता विद्वान् भवेत्, तमुपयम्य निरन्तरमानन्दितव्यम्॥२॥
Subject
पुनस्तमेवाह॥
Anvaya
हे इन्द्र परमैश्वर्ययुक्त पते! यतस्त्वं कदाचन स्तरीर्नासि, तस्माद् दाशुष इन्नुपोप सश्चसि। हे मघवन्! देवस्य ते तव यद् दानमिन्नु भूयः पृच्यते, अतोऽहं स्त्रीत्वेनादित्येभ्यः सदा सुखप्रापकं त्वा त्वामाश्रये॥२॥