Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 8 / Mantra 18

63 Mantra
8/18
Devata- गृहपतयो देवताः Rishi- अत्रिर्ऋषिः Chhand- आर्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
सु॒गा वो॑ देवाः॒ सद॑नाऽअकर्म॒ यऽआ॑ज॒ग्मेदꣳ सव॑नं जुषा॒णाः। भ॑रमाणा॒ वह॑माना ह॒वीष्य॒स्मे ध॑त्त वसवो॒ वसू॑नि॒ स्वाहा॑॥१८॥

सु॒गेति॑ सु॒ऽगा। वः॒। दे॒वाः॒। सद॑ना। अ॒क॒र्म॒। ये। आ॒ज॒ग्मेत्या॑ऽज॒ग्म। इ॒दम्। सव॑नम्। जु॒षा॒णाः। भर॑माणाः। वह॑मानाः। ह॒वीꣳषि॑। अ॒स्मेऽइत्य॒स्मे। ध॒त्त॒। व॒स॒वः॒। वसू॑नि। स्वाहा॑ ॥१८॥

Mantra without Swara
सुगा वो देवाः सदना अकर्म य आजग्मेदँ सवनञ्जुषाणाः । भरमाणा वहमाना हवीँष्यस्मे धत्त वसवो वसूनि स्वाहा ॥

सुगेति सुऽगा। वः। देवाः। सदना। अकर्म। ये। आजग्मेत्याऽजग्म। इदम्। सवनम्। जुषाणाः। भरमाणाः। वहमानाः। हवीꣳषि। अस्मेऽइत्यस्मे। धत्त। वसवः। वसूनि। स्वाहा॥१८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(सुगा) सुष्ठु गन्तुं प्राप्तुं योग्यानि, अत्र शेश्छन्दसि बहुलम्। (अष्टा॰६।१। ७०) इति लुक् (वः) युष्माकम् (देवाः) व्यवहरमाणाः (सदना) सीदन्ति गच्छन्ति पुरुषार्थेन येषु तानि गृहाणि (अकर्म्म) अकार्ष्म, कुर्याम, अत्र डुकृञ् धातोर्लुङि मन्त्रे घस॰। (अष्टा॰२।४।८०) इत्यादिना च्लेर्लुक् (ये) (आजग्म) प्राप्नुवन्तु (इदम्) प्रत्यक्षम् (सवनम्) ऐश्वर्यम् (जुषाणाः) सेवमानाः (भरमाणाः) धरमाणाः (वहमानाः) प्राप्नुवन्तः (हवींषि) दातुमादातुमर्हाणि (अस्मे) अस्मभ्यम्। अत्र भ्यसः स्थाने सुपां सुलुक्। (अष्टा॰७।१।३९) इति शे इत्यादेशः (धत्त) धरत (वसवः) ये वसन्ति सद्गुणकर्मसु ते (वसूनि) धनानि, वस्विति धननामसु पठितम्। (निघं॰२।१०) (स्वाहा) श्रेष्ठक्रियया। अयं मन्त्रः (शत॰ ४। ४। ४। १०) व्याख्यातः॥१८॥ यास्कमुनिरत्राह-सुगा वो देवाः सदनमकर्म्म य आजग्मुः सवनमिदं जुषाणाः जक्षिवांसः पपिवांसश्च विश्वेऽस्मे धत्त वसवो वसूनि स्वागमनानि वो देवाः सुपथान्यकर्म्म य आगच्छत सवनानीमानि जुषाणाः खादितवन्तः पीतवन्तश्च सर्वेऽस्मासु धत्त वसवो वसूनि। (निरु॰१२।४२॥ १८॥
Essence
यथा पितृपतिश्वश्रूर्मित्रस्वामिनः पदार्थैः पुत्रपुत्रीस्त्रीसखिभृत्यानां पालनं कुर्वन्तः सुखं ददति, तथैव पुत्रादयोऽप्येतेषां सेवनं कुर्य्युः॥१८॥
Subject
पुनर्गृहकृत्यमाह॥
Anvaya
हे वसवो देवाः! ये वयं स्वाहेदं सवनं जुषाणा भरमाणा वहमाना वो युष्मभ्यं यानि सुखसदना हवींषि वसूनि अकर्म्माजग्म तेभ्योऽस्मे तानि यूयमपि धत्त॥१८॥