Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 7 / Mantra 8

48 Mantra
7/8
Devata- इन्द्रवायू देवते Rishi- मधुच्छन्दा ऋषिः Chhand- आर्षी गायत्री,आर्षी स्वराट् गायत्री, Swara- षड्जः
Mantra with Swara
इन्द्र॑वायूऽइ॒मे सु॒ताऽउप॒ प्रयो॑भि॒राग॑तम्। इन्द॑वो वामु॒शन्ति॒ हि। उ॒प॒या॒मगृ॑हीतोऽसि वा॒यव॑ऽइन्द्रवा॒युभ्यां॑ त्वै॒ष ते॒ योनिः॑ स॒जोषो॑भ्यां त्वा॥८॥

इन्द्र॑वायू॒ इ॒तीन्द्र॑ऽवायू। इ॒मे। सु॒ताः। उप॒ प्रयो॑भि॒रिति॒ प्रयः॑ऽभिः। आ॑गत॒म्। इन्द॑वः। वा॒म्। उ॒शन्ति॑। हि। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। वा॒यवे॑। इ॒न्द्रवा॒युभ्या॒मिती॑न्द्रवा॒युऽभ्या॑म्। त्वा॒। ए॒षः। ते। योनिः॑। स॒जोषो॑भ्यामिति॑ स॒जोषः॑ऽभ्याम्। त्वा॒ ॥८॥

Mantra without Swara
इन्द्रवायू इमे सुताऽउप प्रयोभिरागतम् इन्दवो वामुशन्ति हि उपयामगृहीतो सि वायव इन्द्रवायुभ्यात्वैष ते योनिः सजोषेभ्यां त्वा ॥

इन्द्रवायू इतीन्द्रऽवायू। इमे। सुताः। उप प्रयोभिरिति प्रयःऽभिः। आगतम्। इन्दवः। वाम्। उशन्ति। हि। उपयामगृहीत इत्युपयामऽगृहीतः। असि। वायवे। इन्द्रवायुभ्यामितीन्द्रवायुऽभ्याम्। त्वा। एषः। ते। योनिः। सजोषोभ्यामिति सजोषःऽभ्याम्। त्वा॥८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(इन्द्रवायू) प्राणसूर्य्यसदृशौ योगस्योपदेष्ट्र्भ्यासिनौ (इमे) समक्षाः (सुताः) निष्पन्नाः पदार्थाः (उप) समीपे (प्रयोभिः) कमनीयैर्लक्षणैः (आगतम्) आगच्छतम्। गम्लृ गतावित्यस्माद्। बहुलं छन्दसि। (अष्टा॰२।४।७३) इति शपो लुकि सति शित्वाभावाच्छस्याभावः। अनुदात्तोपदेश॰। (अष्टा॰६।४।३७) इत्यादिना मलोपश्च। (इन्दवः) सुखकारका जलादिपदार्थाः। इन्दुरित्युदकनामसु पठितम्। (निघं॰१।१२) (वाम्) युवाम् (उशन्ति) कामयन्ते (हि) सादृश्ये (उपयामगृहीतः) योगस्य यमनियामाङ्गैः सह स्वीकृतः (असि) (वायवे) वायुवद् गत्यादिसिद्धये यद्वा वाति प्रापयति योगबलेन व्यवहारानिति वायुर्योगविचक्षणस्तस्मै तादृशसम्पन्नाय (इन्द्रवायुभ्याम्) विद्युत्प्राणाभ्यामिव योगाकर्षणनिष्कर्षणाभ्याम् (त्वा) त्वाम् (एषः) योगः (ते) तव (योनिः) गृहम्। योनिरिति गृहनामसु पठितम्। (निघं॰३।४) (सजोषोभ्याम्) यौ जोषसा सेवनेन सह वर्त्तमानौ ताभ्याम् (त्वा) त्वाम्॥ अयं मन्त्रः (शत॰४। १। ३। १८) व्याख्यातः॥८॥
Essence
त एव जना योगनस्सिद्धाश्च भवितुं शक्नुवन्ति, ये योगविद्याभ्यासं कृत्वेश्वरमारभ्य भूमिपर्य्यन्तान् पदार्थान् साक्षात्कर्तुं प्रयतन्ते, यमादिसाधनान्विताश्च योगे रमन्ते, ये चैतान् सेवन्ते तेऽप्येतत्सर्वं प्राप्नुवन्ति नेतरे॥८॥
Subject
पुनः स योगी कीदृशो भवतीत्युच्यते॥
Anvaya
हे इन्द्रवायू हि यत इमे सुता इन्दवो वामुशन्ति, तस्माद् युवामेतैः प्रयोभिः पदार्थैः सहैवोपागतमुपागच्छतम्। भो योगमभीप्सो! त्वमनेनाध्यापकेन वायवे उपयामगृहीतोऽसि। हे भगवन्! योगाध्यापक! एष योगस्ते तव योनिः सर्वदुःखनिवारकं गृहमिवास्ति। इन्द्रवायुभ्यां जुष्टं त्वा त्वां तथा योगमभीप्सो सजोषोभ्यामुक्तगुणाभ्यां जुष्टं त्वा त्वां चाहं वश्मि॥८॥