Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 7 / Mantra 46

48 Mantra
7/46
Devata- विद्वांसो देवता Rishi- आङ्गिरस ऋषिः Chhand- भूरिक् आर्षी त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
ब्रा॒ह्म॒णमद्य॒ वि॑देयं पितृ॒मन्तं॑ पैतृम॒त्यमृषि॑मार्षे॒यꣳ सु॒धातु॑दक्षिणम्। अ॒स्मद्रा॑ता देव॒त्रा ग॑च्छत प्रदा॒तार॒मावि॑शत॥४६॥

ब्रा॒ह्म॒णम्। अ॒द्य। वि॒दे॒य॒म्। पि॒तृ॒मन्त॒मिति॑ पितृ॒ऽमन्त॑म्। पै॒तृ॒म॒त्यमिति॑ पैतृऽम॒त्यम्। ऋषि॑म्। आ॒र्षे॒यम्। सु॒धातु॑दक्षिण॒मिति॑ सु॒धातु॑ऽदक्षिणम्। अ॒स्मद्रा॑ता॒ इत्य॒स्मत्ऽरा॑ताः। दे॒व॒त्रेति॑ देव॒ऽत्रा। ग॒च्छ॒त॒। प्र॒दा॒तार॒मिति॑ प्रऽदा॒तार॑म्। आ। वि॒श॒त॒ ॥४६॥

Mantra without Swara
ब्राह्मणमद्य विदेयम्पितृमन्तम्पैतृमत्यमृषिमार्षेयँ सुधातुदक्षिणम् । अस्मद्राता देवत्रा गच्छत प्रदातारमा विशत ॥

ब्राह्मणम्। अद्य। विदेयम्। पितृमन्तमिति पितृऽमन्तम्। पैतृमत्यमिति पैतृऽमत्यम्। ऋषिम्। आर्षेयम्। सुधातुदक्षिणमिति सुधातुऽदक्षिणम्। अस्मद्राता इत्यस्मत्ऽराताः। देवत्रेति देवऽत्रा। गच्छत। प्रदातारमिति प्रऽदातारम्। आ। विशत॥४६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(ब्राह्मणम्) वेदेश्वरविदम् (अद्य) (विदेयम्) अत्र छान्दसो वर्णलोपो वा [अष्टा॰भा॰वा॰८.२.२५] इति नलोपः। (पितृमन्तम्) प्रशस्ताः पितरो रक्षकाः सत्यासत्योपदेशकाः विद्यन्ते यस्य तमिव (पैतृमत्यम्) पितृमतां भावं प्राप्तम् (ऋषिम्) वेदार्थविज्ञापकम् (आर्षेयम्) ऋषीणामिदं योगजं विज्ञानं प्राप्तम् (सुधातुदक्षिणम्) शोभना धातवो दक्षिणा यस्य दातुस्तम् (अस्मद्राताः) येऽस्मभ्यं रान्ति शुभान् गुणान् ददति ते (देवत्रा) देवेषु पवित्रगुणकर्मस्वभावेषु वर्त्तमानाः (गच्छत) प्राप्नुत (प्रदातारम्) प्रकृष्टतया दानशीलम् (आ) समन्तात् (विशत)॥ अयं मन्त्रः (शत॰४। ३। १९-२४) व्याख्यातः॥४६॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। उत्साहितेन पुरुषेण किमाप्तुमशक्यमस्ति, को नाम खलु प्रयत्नेन विदुषः सेवित्वार्षं योगविज्ञानं साधितुन्न शक्नुयात्। नहि कश्चिदपि विद्वान् सद्गुणस्वभावग्रहणाद् विरज्येत, नहि दातॄन् कार्प्पण्यं कदाचिदाविशत्वतो यैर्दक्षिणायां प्रशस्ताः पदार्थाः प्रदीयन्ते, तेषामतुला कीर्तिः कुतो न जायेत॥४६॥
Subject
अथ दक्षिणा कस्मै कथं च दातव्येत्युपदिश्यते॥
Anvaya
हे प्रजासभासेनाजना! यथाहमद्य ब्राह्मणं पितृमन्तं पैतृमत्यमृषिमार्षेयं सुधातुदक्षिणं प्रदातारं च विदेयम्, तथाऽस्मद्राताः सन्तो यूयं देवत्रा गच्छत, शुभान् गुणानाविशत॥४६॥