Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 7 / Mantra 41

48 Mantra
7/41
Devata- सूर्य्यो देवता Rishi- प्रस्कण्व ऋषिः Chhand- भूरिक् आर्षी गायत्री, Swara- षड्जः
Mantra with Swara
उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑। दृ॒शे विश्वा॑य॒ सूर्य॒ꣳ स्वाहा॑॥४१॥

उत्। ऊँ॒ऽइत्यूँ॑। त्यम्। जा॒तवे॑दस॒मिति॑ जा॒तऽवे॑दसम्। दे॒वम्। व॒ह॒न्ति॒। के॒तवः॑। दृ॒शे। विश्वा॑य। सूर्य्य॑म्। स्वाहा॑ ॥४१॥

Mantra without Swara
उदु त्यञ्जातवेदसन्देवं वहन्ति केतवः । दृशे विश्वाय सूर्यँ स्वाहा ॥

उत्। ऊँऽइत्यूँ। त्यम्। जातवेदसमिति जातऽवेदसम्। देवम्। वहन्ति। केतवः। दृशे। विश्वाय। सूर्य्यम्। स्वाहा॥४१॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(उत्) क्रियायोगे (उ) वितर्के (त्यम्) अमुम् (जातवेदसम्) जातानि भूतानि सर्वाणि वेद, जातान् मूर्त्तिमतः पदार्थान् विन्दत इति वा तम्। इमं पदं यास्कमुनिरेवं निर्वक्ति-‘जातवेदाः कस्माज्जातानि वेद जातानि वैनं विदुर्जाते जाते विद्यत इति वा जातविद्यो वा जातप्रज्ञानो यत्तज्जात पशूनविन्दतेति तज्जातवेदसो जातवेदस्त्वमिति। (निरु॰७.१९) (देवम्) दिव्यगुणसम्पन्नम् (वहन्ति) प्रापयन्ति (केतवः) प्रज्ञानानि, केतुरिति प्रज्ञानामसु पठितम्। (निघं॰३.९) (दृशे) द्रष्टुम्, दृशे विख्ये च। (अष्टा॰३.४.११) (विश्वाय) सर्वार्थाय (सूर्य्यम्) यः स्रियते विज्ञाप्यते वा विप्रैर्विद्वद्भिश्च तम् (स्वाहा) सत्यया वाचा॥ इमं मन्त्रं यास्कमुनिरेवं व्याचष्टे-‘उद्वहन्ति तं जातवेदसं रश्मयः केतवः सर्वेषां भूतानां दर्शनाय सूर्य्यमिति कमन्यमादित्यादेवमवक्ष्यत्। (निरु॰१२.१५) अयं मन्त्रः (शत॰४।६।२।२) व्याख्यातः॥४१॥
Essence
यथा प्राणिभ्यः किरणाः सूर्य्यं प्रकाशयन्ति, तथा मनुष्यस्य प्रज्ञानानीश्वरं प्रापयन्ति॥४१॥
Subject
अथ सूर्य्यदृष्टान्तेनेश्वरस्य गुणा उपदिश्यन्ते॥
Anvaya
यथा किरणा विश्वाय दृशे जातवेदसं त्यं सूर्य्यं देवमुद्वहन्तीव विदुषः केतवः स्वाहाऽन्यान् मनुष्यान् परं ब्रह्म प्रापयन्ति॥४१॥