Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 7 / Mantra 4

48 Mantra
7/4
Devata- मघवा देवता Rishi- गोतम ऋषिः Chhand- आर्षी उष्णिक् Swara- ऋषभः
Mantra with Swara
उ॒प॒या॒मगृ॑हीतोऽस्य॒न्तर्य॑च्छ मघवन् पा॒हि सोम॑म्। उ॒रु॒ष्य राय॒ऽएषो॑ यजस्व॥४॥

उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। अ॒न्तः। य॒च्छ॒। म॒घ॒व॒न्निति॑ मघऽवन्। पा॒हि॒। सोम॑म्। उ॒रु॒ष्य। रायः॑। आ। इषः॑। य॒ज॒स्व॒ ॥४॥

Mantra without Swara
उपयामगृहीतो स्यन्तर्यच्छ मघवन्पाहि सोमम् । उरुष्य राय एषो यजस्व ॥

उपयामगृहीत इत्युपयामऽगृहीतः। असि। अन्तः। यच्छ। मघवन्निति मघऽवन्। पाहि। सोमम्। उरुष्य। रायः। आ। इषः। यजस्व॥४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(उपयामगृहीतः) उपात्तैर्यमैर्गृहीत इव (असि) (अन्तः) आभ्यन्तरस्थान् प्राणादीन् (यच्छ) निगृहाण (मघवन्) परमपूजित धनिसदृश! (पाहि) रक्ष (सोमम्) योगसिद्धमैश्वर्य्यम् (उरुष्य) बहुना योगाभ्यासेनाविद्यादिक्लेशानन्तं नय। अत्रोरुपपदात् षोऽन्तकर्म्मणीत्यस्मात् क्विप्, ततो नामधातुत्वात् क्विप्, मध्यमैकवचनप्रयोगः। (रायः) ऋद्धिसिद्धिधनानि (आ) समन्तात् (इषः) इच्छासिद्धीः (यजस्व)॥ अयं मन्त्रः (शत॰४। १। १। १५) व्याख्यातः॥४॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। योगार्थिना यमादिभिर्योगाङ्गैश्चित्तादीन्निरुध्याविद्यादिदोषान् निवार्य्य संयमेनर्द्धिसिद्धयो निष्पाद्यन्ताम्॥४॥
Subject
पुनरात्मनाभ्यन्तरे कथं प्रयतितव्यमित्याह॥
Anvaya
हे योगजिज्ञासो! यस्त्वमुपयामगृहीत इवासि तस्मादन्तर्य्यच्छ। हे मघवन्! सोमं पाहि क्लेशानुरुष्य यतो राय इष आयजस्व॥४॥