Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 7 / Mantra 32

48 Mantra
7/32
Devata- विश्वेदेवा देवताः Rishi- त्रिशोक ऋषिः Chhand- आर्षी गायत्री,आर्ची उष्णिक् Swara- ऋषभः, षड्जः
Mantra with Swara
आ घा॒ऽअ॒ग्निमि॑न्ध॒ते स्तृ॒णन्ति॑ ब॒र्हिरा॑नु॒षक्। येषा॒मिन्द्रो॒ युवा॒ सखा॑। उ॒प॒या॒मगृ॑हीतोऽस्यग्नी॒न्द्राभ्यां॑ त्वै॒ष ते॒ योनि॑रग्नी॒न्द्राभ्यां॑ त्वा॥३२॥

आ। घ॒। ये। अ॒ग्निम्। इ॒न्ध॒ते। स्तृ॒णन्ति॑। ब॒र्हिः। आ॒नु॒षक्। येषा॑म्। इन्द्रः॑। युवा॑। सखा॑। उ॒पा॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। अ॒ग्नी॒न्द्राभ्या॑म्। त्वा॒। ए॒षः। ते॒। योनिः॑। अ॒ग्नी॒न्द्राभ्या॑म्। त्वा॒ ॥३२॥

Mantra without Swara
आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् । येषामिन्द्रो युवा सखा । उपयामगृहीतो स्यग्नीन्द्राभ्यान्त्वैष ते योनिरग्नीन्द्राभ्यां त्वा ॥

आ। घ। ये। अग्निम्। इन्धते। स्तृणान्ति। बर्हिः। आनुषक्। येषाम्। इन्द्रः। युवा। सखा। उपायामगृहीत इत्युपयामऽगृहीतः। असि। अग्नीन्द्राभ्याम्। त्वा। एषः। ते। योनिः। अग्नीन्द्राभ्याम्। त्वा॥३२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(आ) समन्तात् (घ) एव, अत्र ऋचि तुनुघ॰। (अष्टा॰६।३।१३३) इति दीर्घः। (ये) वेदपारगा विद्वांसः (अग्निम्) विद्युदादिस्वरूपम् (इन्धते) प्रदीपयन्ति (स्तृणन्ति) यन्त्रैश्छादयन्ति (बर्हिः) अन्तरिक्षम् (आनुषक्) अनुकूलतया (येषाम्) विदुषाम् (इन्द्रः) सकलैश्वर्य्यवान् सभापतिः प्रत्येकाङ्गपुष्टः (युवा) तरुणावस्थः (सखा) सुहृत् (उपयामगृहीतः) (असि) (अग्नीन्द्राभ्याम्) सकलराज्यकर्म्मविचारविचक्षणाभ्यामग्नीन्द्रगुण-युक्ताभ्याम् (त्वा) त्वाम् (एषः) (ते) (योनिः) (अग्नीन्द्राभ्याम्) (त्वा) त्वाम्॥३२॥
Essence
राजधर्म्मे सर्वकर्म्मणः सभाधीनत्वाद् विचारसभासु प्रवृत्तेषु राजवर्गीयजनेषु द्वौ त्रयो बहवो वा सभासदः स्वविचारेण यमर्थं निष्पादयेयुस्तदनुकूला एव राजप्रजाजना वर्त्तेरन्॥३२॥
Subject
अथोक्तमर्थं प्रकारान्तेरेणाह॥
Anvaya
ये वेदपारगा विद्वांसस्सभासदोऽग्निं घेन्धते। येषामानुषग्बर्हिरास्तृणन्ति, युवेन्द्रः सभापतिः सखास्ति, यस्त्वमग्नीन्द्राभ्यामुपयामगृहीतोऽसि, यस्य ते तवैष ते योनिरस्ति, तं त्वां प्राप्ता वयमग्नीन्द्राभ्यां त्वामुपदिशामः॥३२॥