Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 7 / Mantra 31

48 Mantra
7/31
Devata- इन्द्राग्नी देवते Rishi- विश्वामित्र ऋषिः Chhand- आर्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
इन्द्रा॑ग्नी॒ऽआग॑तꣳ सु॒तं गी॒र्भिर्नभो॒ वरे॑ण्यम्। अ॒स्य पा॑तं धि॒येषि॒ता। उ॒प॒या॒मगृ॑हीतोऽसीन्द्रा॒ग्निभ्यां॑ त्वै॒ष ते॒ योनि॑रिन्द्रा॒ग्निभ्यां॑ त्वा॥३१॥

इन्द्रा॑ग्नी॒ऽइतीन्द्रा॑ग्नी। आ। ग॒त॒म्। सु॒तम्। गी॒र्भिरिति॑ गीः॒ऽभिः। नभः॑। वरे॑ण्यम्। अ॒स्य। पा॒त॒म्। धि॒या। इ॒षि॒ता। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मगृ॑हीतः। अ॒सि॒। इ॒न्द्रा॒ग्निभ्या॒मिती॑न्द्रा॒ग्निऽभ्याम्। त्वा॒। ए॒षः। ते॒। योनिः॑। इ॒न्द्रा॒ग्निभ्या॒मिती॑न्द्रा॒ग्निऽभ्याम्। त्वा॒ ॥३१॥

Mantra without Swara
इन्द्राग्नी आ गतँ सुतङ्गीर्भिर्नभो वरेण्यम् । अस्य पातन्धियेषिता । उपयामगृहीतो सीन्द्राग्निभ्यात्वैष ते योनिरिन्द्राग्निभ्यां त्वा ॥

इन्द्राग्नीऽइतीन्द्राग्नी। आ। गतम्। सुतम्। गीर्भिरिति गीःऽभिः। नभः। वरेण्यम्। अस्य। पातम्। धिया। इषिता। उपयामगृहीत इत्युपयामगृहीतः। असि। इन्द्राग्निभ्यामितीन्द्राग्निऽभ्याम्। त्वा। एषः। ते। योनिः। इन्द्राग्निभ्यामितीन्द्राग्निऽभ्याम्। त्वा॥३१॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(इन्द्राग्नी) सूर्य्याग्नी इव प्रकाशमानौ सभापतिसभासदौ (आगतम्) आगच्छतम् (सुतम्) सुनुतम्। अत्र बहुलं छन्दसि। (अष्टा॰२।४।७३) इति विकरणस्य लुक्। (गीर्भिः) सुशिक्षिताभिर्वाग्भिः (नभः) सुखम्। नभ इति साधारणनामसु पठितम्। (निघं॰१।४) (वरेण्यम्) (अस्य) नभसः, कर्म्मणि षष्ठी। (पातम्) रक्षतम् (धिया) प्रज्ञया कर्म्मणा वा (इषिता) प्रेषितौ प्रार्थितौ वा (उपयामगृहीतः) (असि) (इन्द्राग्निभ्याम्) (त्वा) त्वाम् (एषः) राजन्यायः (ते) तव (योनिः) गृहम् (इन्द्राग्निभ्याम्) (त्वा) त्वाम्॥ अयं मन्त्रः (शत॰४। ३। १। २४) व्याख्यातः॥३१॥
Essence
नह्येकाकी पुमान् यथोक्तराज्यकर्म्मकर्त्तुं शक्नोति, अतः प्रजाजनान् सत्कृत्य राज्यकर्म्मणि नियोजयेत्, ते च यथोक्तव्यवहारेण तं राजानं सत्कुर्य्युरिति॥३१॥
Subject
अथ राज्यव्यवहारेण नियुक्ते कर्म्मणि प्रवर्त्तमानौ राजप्रजापुरुषौ प्रति कश्चित् सत्कारेणाह॥
Anvaya
हे राजप्रजाजनौ! युवामिन्द्राग्नी इवागतं गीर्भिरस्मभ्यं वरेण्य नभः सुतं धियेषिता युवामस्य नभसः पातं रक्षतम्। तावाहतुः—हे प्रजाजन! त्वमुपयामगृहीतोऽसि त्वा त्वामिन्द्राग्निभ्यां स्वीकृतं वयं मन्यामहे एष ते योनिरस्त्यतस्त्वामिन्द्राग्निभ्यां चेतयामहे॥३१॥