Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 7 / Mantra 30

48 Mantra
7/30
Devata- प्रजापतिर्देवता Rishi- देवश्रवा ऋषिः Chhand- साम्नी गायत्री,आसुरी अनुष्टुप्,याजुषी पङ्क्ति,आसुरी उष्णिक् Swara- ऋषभः, षड्जः
Mantra with Swara
उ॒प॒या॒मगृ॑हीतोऽसि॒ मध॑वे त्वोपया॒मगृ॑हीतोऽसि॒ माध॑वाय त्वोपया॒मगृ॑हीतोऽसि शु॒क्राय॑ त्वोपया॒मगृ॑हीतोऽसि॒ शुच॑ये त्वोपया॒मगृ॑हीतोऽसि॒ नभ॑से त्वोपया॒मगृ॑हीतोऽसि नभ॒स्याय त्वोपया॒मगृ॑हीतोऽसी॒षे त्वो॑पया॒मगृ॑हीतोऽस्यू॒र्जे त्वो॑पया॒मगृ॑हीतोऽसि॒ सह॑से त्वोपया॒मगृ॑हीतोऽसि सह॒स्याय त्वोपया॒मगृ॑हीतोऽसि॒ तप॑से त्वोपया॒मगृ॑हीतोऽसि तप॒स्याय त्वोपया॒मगृ॑हीतोऽस्यꣳहसस्प॒तये॑ त्वा॥३०॥

उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। मध॑वे। त्वा॒। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। माध॑वाय। त्वा॒। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। शु॒क्राय॑। त्वा॒। उ॒प॒या॒मऽगृ॑हीतः। अ॒सि॒। शुच॑ये। त्वा॒। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। नभ॑से। त्वा॒। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। न॒भ॒स्या᳖य। त्वा॒। उ॒पा॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। इ॒षे। त्वा॒। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मगृ॑हीतः। अ॒सि॒। ऊ॒र्ज्जे। त्वा॒। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। सह॑से। त्वा॒। उ॒प॒या॒मगृ॑हीत इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। स॒ह॒स्या᳖य। त्वा॒। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। तप॑से। त्वा॒। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। त॒प॒स्या᳖य। त्वा॒। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। अ॒ꣳह॒स॒स्प॒तये॑। अ॒ꣳह॒सः॒प॒तय॒ इत्य॑ꣳहसःऽप॒तये॑। त्वा॒ ॥३०॥

Mantra without Swara
उपयामगृहीतोसि मधवे त्वोपयामगृहीतोसि माधवाय त्वोपयामगृहीतोसि शुक्राय त्वोपयामगृहीतोसि शुचये त्वोपयामगृहीतोसि नभसे त्वोपयामगृहीतोसि नभस्याय त्वोपयामगृहीतोसीषे त्वोपयामगृहीतोस्यूर्जे त्वोपयामगृहीतोसि सहसे त्वोपयामगृहीतोसि सहस्याय त्वोपयामगृहीतोसि तपसे त्वोपयामगृहीतोसि तपस्याय त्वोपयामगृहीतो स्यँहसस्पतये त्वा ॥

उपयामगृहीत इत्युपयामऽगृहीतः। असि। मधवे। त्वा। उपयामगृहीत इत्युपयामऽगृहीतः। असि। माधवाय। त्वा। उपयामगृहीत इत्युपयामऽगृहीतः। असि। शुक्राय। त्वा। उपयामऽगृहीतः। असि। शुचये। त्वा। उपयामगृहीत इत्युपयामऽगृहीतः। असि। नभसे। त्वा। उपयामगृहीत इत्युपयामऽगृहीतः। असि। नभस्याय। त्वा। उपायामगृहीत इत्युपयामऽगृहीतः। असि। इषे। त्वा। उपयामगृहीत इत्युपयामगृहीतः। असि। ऊर्ज्जे। त्वा। उपयामगृहीत इत्युपयामऽगृहीतः। असि। सहसे। त्वा। उपयामगृहीत इत्युपयामऽगृहीतः। असि। सहस्याय। त्वा। उपयामगृहीत इत्युपयामऽगृहीतः। असि। तपसे। त्वा। उपयामगृहीत इत्युपयामऽगृहीतः। असि। तपस्याय। त्वा। उपयामगृहीत इत्युपयामऽगृहीतः। असि। अꣳहसस्पतये। अꣳहसःपतय इत्यꣳहसःऽपतये। त्वा॥३०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(उपयामगृहीतः) सुनियमैस्स्वीकृतः (असि) (मधवे) चैत्रमासाय (त्वा) त्वाम् (उपयामगृहीतः) (असि) (माधवाय) वैशाखमासाय (त्वा) त्वाम् (उपयामगृहीतः) (असि) (शुक्राय) ज्येष्ठाय (त्वा) त्वाम् (उपयामगृहीतः) (असि) (शुचये) आषाढाय (त्वा) त्वाम् (उपयामगृहीतः) (असि) (नभसे) श्रावणाय (त्वा) (त्वाम्) (उपयामगृहीतः) (असि) (नभस्याय) भाद्राय (त्वा) (त्वाम्) (उपयामगृहीतः) (असि) (इषे) आश्विनाय (त्वा) त्वाम् (उपयामगृहीतः) (असि) (ऊर्ज्जे) कार्त्तिकाय (त्वा) त्वाम् (उपयामगृहीतः) (असि) (सहसे) मार्गशीर्षाय (त्वा) त्वाम् (उपयामगृहीतः) (असि) (सहस्याय) पौषाय (त्वा) त्वाम् (उपयामगृहीतः) (असि) (तपसे) माघाय (त्वा) त्वाम् (उपयामगृहीतः) (असि) (तपस्याय) फाल्गुनाय (त्वा) त्वाम् (उपयामगृहीतः) (असि) (अंहसस्पतये) सर्वेषां वेगस्य पालकाय (त्वा) त्वाम्॥ अयं मन्त्रः (शत॰४। ३। १। १४-२३) व्याख्यातः॥३०॥
Essence
सभापतिर्यथाकालं श्रेष्ठं राज्यं प्राप्याप्तव्यवहारेण प्रजाजनेभ्यः सर्वं सुखं दद्यात्, ते च राजाज्ञानुकूलव्यवहारे वर्तेरन्निति॥३०॥
Subject
पुनर्विषयान्तरेण तदेवाह॥
Anvaya
हे राजन्! यतस्त्वमुपयामगृहीतोऽसि तस्मात् त्वा त्वां मधवे वयं स्वीकुर्म्मः। सभापतिराह-हे प्रजासभासेनाजना! यतो युष्माकं प्रत्येक उपयामगृहीतोऽस्ति, तस्मादेकैकं त्वा त्वां मधवेऽहं स्वीकरोमि। इत्थं सर्वत्र योजना कार्य्या॥३०॥