Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 7 / Mantra 25

48 Mantra
7/25
Devata- वैश्वनरो देवता Rishi- भरद्वाज ऋषिः Chhand- याजुषी अनुष्टुप्,विराट आर्षी बृहती Swara- गान्धारः
Mantra with Swara
उ॒प॒या॒मगृ॑हीतोऽसि ध्रु॒वोऽसि ध्रु॒वक्षि॑तिर्ध्रु॒वाणां॑ ध्रु॒वत॒मोऽच्यु॑तानामच्युत॒क्षित्त॑मऽए॒ष ते॒ योनि॑र्वैश्वान॒राय॑ त्वा। ध्रु॒वं ध्रु॒वेण॒ मन॑सा वा॒चा सोम॒मव॑नयामि। अथा॑ न॒ऽइन्द्र॒ऽइद्विशो॑ऽसप॒त्नाः सम॑नस॒स्कर॑त्॥२५॥

उ॒प॒या॒मगृ॑हीत इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। ध्रु॒वः। अ॒सि॒। ध्रु॒वक्षि॑ति॒रिति॑ ध्रु॒वऽक्षि॑तिः। ध्रु॒वाणा॑म्। ध्रु॒वत॑म॒ इति॑ ध्रु॒वऽतमः॑। अच्यु॑तानाम्। अ॒च्युत॒क्षित्त॑म॒ इत्य॑च्युत॒क्षित्ऽत॑मः। ए॒षः। ते॒। योनिः॑। वै॒श्वा॒न॒राय॑। त्वा॒। ध्रु॒वम्। ध्रु॒वेण॑। मन॑सा। वा॒चा। सोम॑म्। अव॑। न॒या॒मि॒। अथ॑। नः॒। इन्द्रः॑। इत्। विशः॑। अ॒स॒प॒त्नाः। सम॑नस॒ इति॑ सऽम॑नसः। कर॑त् ॥२५॥

Mantra without Swara
उपयामगृहीतोसि धु्रवोसि धु्रवक्षितिर्ध्रुवाणान्धु्रवतमोच्युतानामच्युतक्षितमऽएष ते योनिर्वैश्वानराय त्वा । धु्रवन्धु्रवेण मनसा वाचा सोममवनयामि । अथा नऽइन्द्रऽइद्विशो सपत्नाः समनसस्करत् ॥

उपयामगृहीत इत्युपयामऽगृहीतः। असि। ध्रुवः। असि। ध्रुवक्षितिरिति ध्रुवऽक्षितिः। ध्रुवाणाम्। ध्रुवतम इति ध्रुवऽतमः। अच्युतानाम्। अच्युतक्षित्तम इत्यच्युतक्षित्ऽतमः। एषः। ते। योनिः। वैश्वानराय। त्वा। ध्रुवम्। ध्रुवेण। मनसा। वाचा। सोमम्। अव। नयामि। अथ। नः। इन्द्रः। इत्। विशः। असपत्नाः। समनस इति सऽमनसः। करत्॥२५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(उपयामगृहीतः) यमानां समूहो यामम्, उपगतं च तद्यामं चोपयाममुपयामेन गृहीत उपयामगृहीतः परमेश्वरः (असि) (ध्रुवः) स्थिरः (असि) (ध्रुवक्षितिः) ध्रुवा क्षितयो भूमयो यस्मिन् (ध्रुवाणाम्) आकाशादीनां मध्ये (ध्रुवतमः) अतिशयेन ध्रुवो ध्रुवतमः (अच्युतानाम्) कारणजीवानाम् (अच्युतक्षित्तमः) अच्युतं क्षयति निवासयति सोऽतिशयितः (एषः) सत्यमार्गप्रकाशः (ते) तव (योनिः) स्थानमिव (वैश्वानराय) विश्वेषां नराणां नायकाय सत्यप्रकाशकाय (त्वा) त्वाम् (ध्रुवम्) निश्चयम् (ध्रुवेण) निष्कम्पेण (मनसा) अन्तःकरणेन (वाचा) वाण्या (सोमम्) सकलजगतः प्रसवितारम् (अव) (नयामि) स्वीकरोमि (अथ) अनन्तरम् (नः) अस्माकम् (इन्द्रः) सर्वदुःखविदारकः (इत्) एव (विशः) प्रजाः (असपत्नाः) अजातशत्रवः (समनसः) समानं मनः स्वान्तं यासां ताः (करत्) करोतु। लेट्प्रयोगोऽयम्॥ अयं मन्त्रः (शत॰४। २। ४। २४) व्याख्यातः॥२५॥
Essence
योऽनित्यानां नित्यो ध्रुवाणामपि ध्रुवः परमेश्वरस्तस्य सर्वजगत्प्रेरकस्येश्वरस्य प्राप्त्या योगाभ्यासानुष्ठानेन चैव विज्ञानं जायते नान्यथा॥२५॥
Subject
अथेश्वरगुणा उपदिश्यन्ते॥
Anvaya
हे परमेश्वर! त्वमुपयामगृहीतोऽसि ध्रुवोऽसि ध्रुवक्षितिर्ध्रुवाणां ध्रुवतमस्तथा चाच्युतानामच्युतक्षित्तमोऽसि। एष ते योनिरस्ति। अस्मै वैश्वानराय राज्यप्रकाशकाय ध्रुवेण मनसा ध्रुवया वाचा च सोमं त्वां ध्रुवमवनयामि। अथेन्द्रो भवान् नो विशोऽसपत्नाः समनस इदेव करत् करोतु॥२५॥