Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 7 / Mantra 2

48 Mantra
7/2
Devata- सोमो देवता Rishi- गोतम ऋषिः Chhand- निचृत् आर्षी पङ्क्ति, Swara- निषादः
Mantra with Swara
मधु॑मतीर्न॒ऽइष॑स्कृधि॒ यत्ते॑ सो॒मादा॑भ्यं॒ नाम॒ जागृ॑वि॒ तस्मै॑ ते सोम॒ सोमा॑य॒ स्वाहा॒ स्वाहो॒र्वन्तरि॑क्ष॒मन्वे॑मि॥२॥

मधु॑मती॒रिति॒ मधु॑ऽमतीः। नः॒। इषः॑। कृ॒धि॒। यत्। ते॒। सो॒म॒। अदा॑भ्यम्। नाम॑। जागृ॑वि। तस्मै॑। ते॒। सो॒म॒। सोमा॑य। स्वाहा॑। स्वाहा॑। उ॒रु। अ॒न्तरि॑क्षम्। अनु॑। ए॒मि॒ ॥२॥

Mantra without Swara
मधुमतीर्नऽइषस्कृधि यत्ते सोमादाभ्यन्नाम जागृवि तस्मै ते सोम सोमाय स्वाहा स्वाहोर्वन्तरिक्षमन्वेमि ॥

मधुमतीरिति मधुऽमतीः। नः। इषः। कृधि। यत्। ते। सोम। अदाभ्यम्। नाम। जागृवि। तस्मै। ते। सोम। सोमाय। स्वाहा। स्वाहा। उरु। अन्तरिक्षम्। अनु। एमि॥२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(मधुमतीः) मधुरगुणवतीः (नः) अस्मभ्यम् (इषः) अन्नानि (कृधि) कुरु (यत्) यस्मात् (ते) तव (सोम) ऐश्वर्य्युक्त विद्वन्! (अदाभ्यम्) अहिंसनीयम् (नाम) संज्ञा (जागृवि) जागरूकं प्रसिद्धम् (तस्मै) (ते) तुभ्यम् (सोम) शुभकर्मसु प्रेरक! (सोमाय) ऐश्वर्य्यस्य प्राप्तये (स्वाहा) सत्यां क्रियाम् (स्वाहा) सत्यां वाचम् (उरु) विस्तीर्णम् (अन्तरिक्षम्) अवकाशम् (अनु) (एमि) अनुगच्छामि॥ अयं मन्त्रः (शत॰४। १। १। १२-२१) व्याख्यातः॥२॥
Essence
मनुष्या यथा स्वसुखायान्नजलादिपदार्थान् सम्पादयेयुस्तथान्येभ्योऽपि देयाः, यथा कश्चित् स्वस्य प्रशंसां कुर्य्यात् तथान्यस्य स्वयमपि कुर्य्यात्, यथा विद्वांस सद्गुणवन्तः सन्ति, तथा तेऽपि भवेयुरिति॥२॥
Subject
मनुष्याः परस्परं कथं व्यवहरेयुरित्याह॥
Anvaya
हे सोम ऐश्वर्य्ययुक्त विद्वंस्त्वं नोऽस्मभ्यं मधुमतीरिषस्कृधि, तथा हे सोम! अहं यद्यस्मात् ते तवादाभ्यं जागृवि नामास्ति, तस्मै सोमाय ते तुभ्यं च स्वाहा, सत्यां क्रियां स्वाहा, सत्यां वाणीमुर्वन्तरिक्षं चान्वेमि॥२॥