Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 6 / Mantra 7

37 Mantra
6/7
Devata- त्वष्टा देवता Rishi- मेधातिथिर्ऋषिः Chhand- निचृत् आर्षी बृहती, Swara- मध्यमः
Mantra with Swara
उ॒पा॒वीर॒स्युप॑ दे॒वान् दैवी॒र्विशः॒ प्रागु॑रु॒शिजो॒ वह्नि॑तमान्। देव॑ त्वष्ट॒र्वसु॑ रम ह॒व्या ते॑ स्वदन्ताम्॥७॥

उ॒पा॒वीरित्यु॑पऽअ॒वीः। अ॒सि॒। उप॑। दे॒वान्। दैवीः॑। विशः॑। प्र। अ॒गुः॒। उ॒शिजः॑। वह्नि॑तमा॒निति॒ वह्नि॑ऽतमान्। देव॑। त्व॒ष्टः॒। वसु॑। र॒म॒। ह॒व्या। ते॒। स्व॒द॒न्ता॒म् ॥७॥

Mantra without Swara
उपावीरस्युप देवान्दैवीर्विशः प्रागुरुशिजो वह्नितमान् । देव त्वष्टर्वसु रम हव्या ते स्वदन्ताम् ॥

उपावीरित्युपऽअवीः। असि। उप। देवान्। दैवीः। विशः। प्र। अगुः। उशिजः। वह्नितमानिति वह्निऽतमान्। देव। त्वष्टः। वसु। रम। हव्या। ते। स्वदन्ताम॥७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(उपावीः) उपागतपालक इव (असि) (देवान्) विदुषः (दैवीः) देवसम्बन्धिनीर्दिव्याः (विशः) प्रजाः (प्र) प्रकृष्टार्थे (अगुः) अगमन् (उशिजः) कमनीयान् (वह्नितमान्) अतिशयिता वह्नयो वोढारस्तान् (देव) दिव्यगुणसम्पन्न! (त्वष्टः) सर्वदुःखच्छित् (वसु) वसूनि धनानि। अत्र सुपां सुलुक्। (अष्टा (अष्टा॰७।१।३९) इति शसो लुक्। (रम) रमस्व, अत्रात्मनेपदे व्यत्ययेन परस्मैपदम्। (हव्या) होतुमत्तुमर्हाणि (ते) तव (स्वदन्ताम्) भुञ्जताम्॥ अयं मन्त्र॥ शत॰ ३। ७। ३। ९-१२) व्याख्यातः॥७॥
Essence
यथा गुणग्राहिण उत्तमगुणं सेवन्ते, न्यायविचक्षणं राजानं प्रजाश्च सेवन्ते, येन मिथः प्रीत्या परस्परस्योन्नतिर्भवतीति॥७॥
Subject
पुनः स तान् प्रति किं कुर्यात् ते च तं प्रति किं कुर्य्युरित्युपदिश्यते॥
Anvaya
हे देव त्वष्टः सभापते! यतस्त्वमुपावीरिवासि तस्माद् दैवीर्विशो यथा उशिजो वह्नितमान् देवान् उपप्रागुस्तथा त्वां प्राप्नुवन्ति, यथैतास्त्वदाश्रयेणाढ्या भूत्वा रमन्ते, तथा त्वमपि तासु रम रमस्व, भवानेतेषां पदार्थान् भुङ्क्ते तथैते ते हव्या होतुमर्हाणि हव्यानि वसु वसूनि स्वदन्ताम्॥७॥