Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 6 / Mantra 23

37 Mantra
6/23
Devata- अब्यज्ञसूर्या देवताः Rishi- दीर्घतमा ऋषिः Chhand- निचृत् आर्षी अनुष्टुप्, Swara- गान्धारः
Mantra with Swara
ह॒विष्म॑तीरि॒माऽआपो॑ ह॒विष्माँ॒२ऽआवि॑वासति। ह॒विष्मा॑न् दे॒वोऽअ॑ध्व॒रो ह॒विष्माँ॑२ऽअस्तु॒ सूर्यः॑॥२३॥

ह॒विष्म॑तीः। इ॒माः। आपः॑। ह॒विष्मा॑न्। आ। वि॒वा॒स॒ति॒। ह॒विष्मा॑न्। दे॒वः। अ॒ध्व॒रः। ह॒विष्मा॑न्। अ॒स्तु॒। सूर्यः॑ ॥२३॥

Mantra without Swara
हविष्मतीरिमा आपो हविष्माँ आ विवासति । हविष्मान्देवो अध्वरो हविष्माँ अस्तु सूर्यः ॥

हविष्मतीः। इमाः। आपः। हविष्मान्। आ। विवासति। हविष्मान्। देवः। अध्वरः। हविष्मान्। अस्तु। सूर्यः॥२३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(हविष्मतीः) प्रशस्तानि हवींषि विद्यन्ते यासु ताः (इमाः) प्रत्यक्षाः (आपः) जलानि (हविष्मान्) प्रशस्तानि हवींषि विद्यन्ते यस्य वायोः सः, दीर्घादटि समानपादे। (अष्टा॰८।३।९) इति रुः। आतोऽटि नित्यम्। (अष्टा॰८।३।३) इति सानुनासिकत्वम्। (आ) समन्तात् (विवासति) सेवते। विवासतीति परिचरणकर्मसु पठितम्। (निघं॰३।५) (हविष्मान्) (देवः) सुखयिता। (अध्वरः) यज्ञः (हविष्मान्) (अस्तु) (सूर्यः)॥ अयं मन्त्रः (शत॰३। ९। २। १०) व्याख्यातः॥२३॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। येन वायुजलसंयोगेनानेकानि सुखानि साध्यन्ते, यैर्विविधदेश-देशान्तरगमनेन वस्तुप्रापणं भवति। तैरेतत् कर्म क्रियाविचक्षण एव कर्त्तुं शक्नोति, यो विविधक्रियाप्रकाशकोऽस्ति, स यज्ञो वृष्ट्यादिसुखकरो भवति॥२३॥
Subject
पुनरन्योन्यं मिलित्वा राजप्रजे केन किं किं कुर्यातामित्याह॥
Anvaya
हे विद्वांसः! यथेमा आपो हविष्मतीर्हविष्मत्यः स्युरयं वायुर्हविष्मानेवाविवासति सर्वान् परिचरति, देवोऽध्वरो हविष्मान् स्यात्, सूर्यो हविष्मान् अस्तु भवेत्, तथा भवन्तो यज्ञेनैतान् शुद्धान् कुर्वन्तु॥२३॥