Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 6 / Mantra 2

37 Mantra
6/2
Devata- सविता देवता Rishi- शाकल्य ऋषिः Chhand- निचृत् गायत्री,स्वराट् पङ्क्ति, Swara- षड्जः, धैवतः
Mantra with Swara
अ॒ग्रे॒णीर॑सि स्वावे॒शऽउ॑न्नेतॄ॒णामे॒तस्य॑ वित्ता॒दधि॑ त्वा स्थास्यति दे॒वस्त्वा॑ सवि॒ता मध्वा॑नक्तु सुपिप्प॒लाभ्य॒स्त्वौष॑धीभ्यः। द्यामग्रे॑णास्पृक्ष॒ऽआन्तरि॑क्षं॒ मध्ये॑नाप्राः पृथि॒वीमुप॑रेणादृꣳहीः॥२॥

अ॒ग्रे॒णीः। अ॒ग्रे॒नीरित्य॑ग्रे॒ऽनीः। अ॒सि॒। स्वा॒वे॒श इति॑ सुऽआवे॒शः। उ॒न्ने॒तॄ॒णामित्यु॑त्ऽनेतॄ॒णाम्। ए॒तन्य॑। वि॒त्ता॒त्। अधि॑। त्वा॒। स्था॒स्य॒ति॒। दे॒वः। त्वा॒। स॒वि॒ता। मध्वा॑। अ॒न॒क्तु॒। सु॒पि॒प्प॒लाभ्य॒ इति॑ सुऽपिप्प॒लाभ्यः॑। त्वा॒। ओष॑धीभ्यः। द्याम्। अग्रे॑ण। अ॒स्पृ॒क्षः॒। आ। अ॒न्तरि॑क्षम्। मध्ये॑न। अ॒प्राः॒। पृ॒थि॒वीम्। उ॑परेण। अ॒दृ॒ꣳहीः॒ ॥२॥

Mantra without Swara
अग्रेणीरसि स्वावेशऽउन्नेतऋृणामेतस्य वित्तादधि त्वा स्थास्यति देवस्त्वा सविता मध्वनक्तु सुपिप्पलाभ्यस्त्वौषधीभ्यः । द्यामग्रेणास्पृक्ष आन्तरिक्षम्मध्येनाप्राः पृथिवीमुपरेणादृँहीः ॥

अग्रेणीः। अग्रेनीरित्यग्रेऽनीः। असि। स्वावेश इति सुऽआवेशः। उन्नेतॄणामित्युत्ऽनेतॄणाम्। एतन्य। वित्तात्। अधि। त्वा। स्थास्यति। देवः। त्वा। सविता। मध्वा। अनक्तु। सुपिप्पलाभ्य इति सुऽपिप्पलाभ्यः। त्वा। ओषधीभ्यः। द्याम्। अग्रेण। अस्पृक्षः। आ। अन्तरिक्षम्। मध्येन। अप्राः। पृथिवीम्। उपरेण। अदृꣳहीः॥२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अग्रेणीः) यथाध्यापकाः शिष्यान् पिता स्वसन्तानान् वा पुरस्तादेव सुशिक्षया विद्यां प्रापयति, तथा (असि) (स्वावेशः) यथाप्तः शोभनं धर्ममाविशाति तथा नेता (उन्नेतॄणाम्) यथोन्नेतॄणां उत्कर्षप्रापयितॄणां राज्यं तथा (एतस्य) प्रकृतं राज्यं पालयितुम् (वित्तात्) विजानीहि (अधि) उपरिभावे (त्वा) त्वाम् (स्थास्यति) (देवः) अखिलराज्येश्वरः (त्वा) त्वाम् (सविता) सर्वस्य विश्वस्य जनिता (मध्वा) मधुरगुणेन (अनक्तु) सिञ्चतु (सुपिप्लाभ्यः) यथा सुष्ठु फलाभ्यः (त्वा) त्वाम् (ओषधीभ्यः) प्रसिद्धाभ्यः (द्याम्) विद्यान्यायप्रकाशम् (अग्रेण) पुरस्तात् (अस्पृक्षः) स्पृश। अत्र सर्वत्र लडर्थे लुङ्। (आ) समन्तात् (अन्तरिक्षम्) धर्मप्रचारस्यावकाशम् (मध्येन) मध्यमावस्थाविशेषेण (अप्राः) पिपृहि (पृथिवीम्) भूमिराज्यम् (उपरेण) उत्कृष्टनियमेन (अदृꣳहीः) प्राप्य वर्द्धस्व॥ अयं मन्त्रः (शत॰३। ७। १। ९) व्याख्यातः॥२॥
Essence
नहि कश्चिज्जनो राजप्रजापुरुषैरस्वीकृतो राज्यमर्हति, न चापि राज्ञानादृतः साम्राज्यं कीर्त्यनुक्रमेण विना सैनापत्यं दण्डनेतृत्वं सर्वलोकाधिपतित्वं च॥२॥
Subject
पुनः सोऽभिषिक्तः सभाध्यक्षः कथं प्रवर्त्तेतेत्युपदिश्यते॥
Anvaya
हे सभाध्यक्ष! यथाग्रेणीरस्ति तथा त्वमसि उन्नेतृणां स्वावेशः सन्नेतस्यैतं राज्यं वित्तात्। हे राजन्! यथा ते त्वां राजपुरुषसमूहः सुपिप्पलाभ्य ओषधीभ्यो मध्वाऽनक्तु, एवं प्रजापुरुषसमूहोऽपि त्वां चानक्तु, त्वमग्रेण यशसा द्यामस्पृक्षो मध्यमेन नान्तरिक्षमाप्राः, उपरेण पृथिवीं प्राप्यैवाꣳदृहीः। देवः सविता सर्वप्रेरको जगदीश्वरस्त्वाऽधि स्थास्यति॥२॥