Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 6 / Mantra 1

37 Mantra
6/1
Devata- सविता देवता Rishi- आगस्त्य ऋषिः Chhand- निचृत् पङ्क्ति,आसुरी उष्णिक्,भूरिक् आर्षी उष्णिक्, Swara- धैवतः, ऋषभः
Mantra with Swara
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। आद॑दे॒ नार्य॑सी॒दम॒हꣳ रक्ष॑सां ग्रीवाऽअपि॑कृन्तामि। यवो॑ऽसि य॒वया॒स्मद् द्वेषो॑ य॒वयारा॑तीर्दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वा॒ शुन्ध॑न्ताँल्लो॒काः पि॑तृ॒षद॑नाः पितृ॒षद॑नमसि॥१॥

दे॒वस्य॑। त्वा॒। स॒वि॒तुः। प्र॒स॒व इति॑ प्रऽस॒वे। अ॒श्विनोः॑। बा॒हुभ्या॒मिति॑ बा॒हुऽभ्याम्। पू॒ष्णः। हस्ता॑भ्याम्। आ। द॒दे॒। नारि॑। अ॒सि॒। इदम्। अ॒हम्। रक्ष॑साम्। ग्री॒वाः। अपि॑। कृ॒न्ता॒मि॒। यवः॑। अ॒सि॒। य॒वय॑। अ॒स्मत्। द्वेषः॑। य॒वय॑। अरा॑तीः। दि॒वे। त्वा॒। अ॒न्तरि॑क्षाय। त्वा॒। पृ॒थि॒व्यै। त्वा॒। शुन्ध॑न्ताम्। लो॒काः। पि॒तृ॒षद॑नाः। पि॒तृ॒सद॑ना॒ इति॑ पितृ॒ऽसद॑नाः। पि॒तृ॒षद॑नम्। पि॒तृ॒ष॑दन॒मिति॑ पि॒तृ॒ऽसद॑नम्। अ॒सि॒ ॥१॥

Mantra without Swara
देवस्य त्वा सवितुः प्रसवेश्विनोर्बाहुभ्याम्पूष्णो हस्ताभ्याम् । आददे नार्यसीदमहँ रक्षसाङ्ग्रीवाऽअपि कृन्तामि । यवोसि यवयास्मद्द्वेषो यवयारातीर्दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वा शुन्धन्ताँलोकाः पितृषदनाः पितृषदनमसि ॥

देवस्य। त्वा। सवितुः। प्रसव इति प्रऽसवे। अश्विनोः। बाहुभ्यामिति बाहुऽभ्याम्। पूष्णः। हस्ताभ्याम्। आ। ददे। नारि। असि। इदम्। अहम्। रक्षसाम्। ग्रीवाः। अपि। कृन्तामि। यवः। असि। यवय। अस्मत्। द्वेषः। यवय। अरातीः। दिवे। त्वा। अन्तरिक्षाय। त्वा। पृथिव्यै। त्वा। शुन्धन्ताम्। लोकाः। पितृषदनाः। पितृसदना इति पितृऽसदनाः। पितृषदनम्। पितृषदनमिति पितृऽसदनम्। असि॥१॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(देवस्य) द्योतमानस्य (त्वा) त्वां सभाध्यक्षम् (सवितुः) सर्वविश्वोत्पादकस्य (प्रसवे) यथेश्वरसृष्टौ (अश्विनोः) प्राणोदानयोः (बाहुभ्याम्) यथा बलवीर्याभ्याम् (पूष्णः) पुष्टिनिमित्तस्य प्राणस्य (हस्ताभ्याम्) धारणाकर्षणाभ्याम् (आददे) गृह्णामि (नारि) यज्ञसहकारिणि (असि) (इदम्) युद्धाख्यं कृत्वा (अहम्) (रक्षसाम्) दुष्टकर्मकारिणाम् (ग्रीवाः) कण्ठान् (अपि) (कृन्तामि) छिनद्मि (यवः) संयोगविभागकर्त्ता (असि) (यवय) वा छन्दसि। (अष्टा॰भा॰वा॰१। ४। ९) इति वृद्ध्यभावः। (अस्मत्) अस्माकं सकाशात् (द्वेषः) द्वेषकान् (यवय) वियुहि (अरातीः) शत्रून् (दिवे) विद्यादिप्रकाशाय (त्वा) त्वां न्यायप्रकाशम् (अन्तरिक्षाय) अन्तरक्षयमिति। (निरु॰२।१०) अन्तरिक्षमित्यन्तरिक्षनामसु पठितम्। (निघं॰१।३) (त्वा) सत्यानुष्ठानावकाशदम् (पृथिव्यै) भूमिराज्याय (त्वा) राज्यविस्तारकम् (शुन्धन्ताम्) (लोकाः) न्यायदृष्ट्या समीक्षणीयाः (पितृषदनाः) यथा पितृषु सीदन्ति ते। पितर इति पदनामसु पठितम्। (निघं॰५।५) (पितृषदनम्) यथा विद्वत्स्थानम् (असि)॥ अयं मन्त्रः (शत॰३। ७। १। १-२) व्याख्यातः॥१॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। ये विद्यानिष्णाता ईश्वरसृष्टौ स्वस्य परेषां च दुष्टतां विधूय राज्यं सेवन्ते ते सुखिनो भवन्ति॥१॥
Subject
अथ राज्याभिषेकाय सुशिक्षितं सभाध्यक्षं विद्वांसं प्रत्याचार्य्यादयः किं किमुपदिशेयुरित्युपदिश्यते॥
Anvaya
हे सभाध्यक्ष! यथा पितृषदना देवस्य सवितुः प्रसवे अश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां त्वामाददाति, तथाहमाददे। यथाऽहं रक्षसां ग्रीवाः कृन्तामि तथा त्वमपि कृन्त। हे सभाध्यक्ष! त्वं यवोऽस्यस्मद् द्वेषो यवयारातीर्यवय तथाऽहं दिवे त्वाऽन्तरिक्षाय त्वा पृथिव्यै त्वा त्वां शुन्धामि तथेमे पितृषदना लोकास्त्वां शुन्धन्ताम्। यतस्त्वं पितृषदनमिवासि तस्मात् पितृपालको भव। हे सभापतेर्नारि! भवत्याऽप्येवमेव कार्य्यम्॥१॥