Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 5 / Mantra 43

43 Mantra
5/43
Devata- यज्ञो देवता Rishi- आगस्त्य ऋषिः Chhand- ब्राह्मी त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
द्यां मा ले॑खीर॒न्तरि॑क्षं॒ मा हि॑ꣳसीः पृथि॒व्या सम्भव॑। अ॒यꣳहि त्वा॒ स्वधि॑ति॒स्तेति॑जानः प्रणि॒नाय॑ मह॒ते सौभ॑गाय। अत॒स्त्वं दे॑व वनस्पते श॒तव॑ल्शो॒ वि॒रो॑ह स॒हस्र॑वल्शा॒ वि व॒यꣳ रु॑हेम॥४३॥

द्याम्। मा। ले॒खीः॒। अ॒न्तरि॑क्षम्। मा। हि॒ꣳसीः॒। पृ॒थि॒व्या। सम्। भ॒व॒। अयम्। हि। त्वा॒। स्वधि॑ति॒रिति॒ स्वऽधि॑तिः। तेति॑जानः। प्र॒णि॒नाय॑ प्र॒ति॒नायेति॑ प्रऽनि॒नाय॑। म॒ह॒ते। सौभ॑गाय। अतः॑। त्वम्। दे॒व॒। व॒न॒स्प॒ते॒। श॒तवल्श॒ इति॑ श॒तऽव॑ल्शः। वि। रो॒ह॒। स॒हस्र॑वल्शा॒ इति॑ स॒हस्र॑ऽवल्शाः। वि। व॒यम्। रु॒हे॒म॒ ॥४३॥

Mantra without Swara
द्याम्मा लेखीरन्तरिक्षम्मा हिँसीः पृथिव्या सम्भव । अयँ हि त्वा स्वधितिस्तेतिजानः प्रणिनाय महते सौभगाय । अतस्त्वन्देव वनस्पते शतवल्शो विरोह सहस्रवल्शा वि वयँ रुहेम ॥

द्याम्। मा। लेखीः। अन्तरिक्षम्। मा। हिꣳसीः। पृथिव्या। सम्। भव। अयम्। हि। त्वा। स्वधितिरिति स्वऽधितिः। तेतिजानः। प्रणिनाय प्रतिनायेति प्रऽनिनाय। महते। सौभगाय। अतः। त्वम्। देव। वनस्पते। शतवल्श इति शतऽवल्शः। वि। रोह। सहस्रवल्शा इति सहस्रऽवल्शाः। वि। वयम्। रुहेम॥४३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(द्याम्) सूर्य्यप्रकाशम् (मा) निषेधे (लेखीः) लिखेः (अन्तरिक्षम्) अवकाशम् (मा) निषेधे (हिंसीः) हन्याः (पृथिव्या) पृथिव्या सह (सम्) क्रियायोगे (भव) (अयम्) वक्ष्यमाणः (हि) यतः (त्वा) त्वाम् (स्वधितिः) यथा वज्रस्तथा (तेतिजानः) भृशं तीक्ष्णः (प्रणिनाय) यथा त्वं प्रणयेस्तथा (महते) विशिष्टाय पूज्यतमाय (सौभगाय) सुष्ठु भगानामैश्वर्याणां भवाय (अतः) कारणात् (त्वम्) (देव) आनन्दित (वनस्पते) वनानां रक्षक (शतवल्शः) यथा बह्वङ्कुरो वृक्षस्तथा (विरोह) विविधतया प्रादुर्भव (सहस्रवल्शाः) यथा बहुमूला वृक्षा रोहन्ति तथा (वि) विविधतया (रुहेम) वर्द्धेमहि। अयं मन्त्रः (शत॰३। ६। ४। १३-१६) व्याख्यातः॥४३॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। इह संसारे केनचिन्मनुष्येण विद्याप्रकाशाभ्यासः कदाचिन्नैव त्याज्यः, स्वातन्त्र्यावकाशश्चैश्वर्य्यसंभावनायोगेनासंख्यातोन्नतिकरणं चेति॥४३॥
Subject
मनुष्यैर्यज्ञार्था विद्या सर्वदा संसेवनीयेत्युपदिश्यते॥
Anvaya
हे विद्वन्! यथाहं द्यां न लिखामि तथा त्वमेनां मा लेखीः। यथाऽहमन्तरिक्षं न हिंसामि तथा त्वमेतन्मा हिंसीः। यथाऽहं पृथिव्या सह संभवामि तथैतया सह त्वमपि संभव। हि यतः कारणात् यथा तेतिजानः स्वधितिः शत्रून् विच्छिद्यैश्वर्य्यं प्रापयति तथा त्वमपि प्रापयेः। अतो वयं त्वा महते सौभगाय सम्भावयेम यथा कश्चिदैश्वर्य्यं प्रणिनाय प्रापयति तथा वयं त्वां प्रापयेम। हे देव वनस्पते! पूर्वोक्तेन महता सौभगेन यथा शतवल्शो वृक्षो विरोहति तथा विरोह यथा सहस्रवल्शा वनस्पतयो विरोहन्ति, तथा वयमपि विरोहेम॥४३॥