Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 5 / Mantra 39

43 Mantra
5/39
Devata- सोमसवितारौ देवते Rishi- आगस्त्य ऋषिः Chhand- साम्नी बृहती,निचृत् आर्षी पङ्क्ति, Swara- मध्यमः, पञ्चमः
Mantra with Swara
देव॑ सवितरे॒ष ते॒ सोम॒स्तꣳ र॑क्षस्व॒ मा त्वा॑ दभन्। ए॒तत्त्वं दे॑व सोम दे॒वो दे॒वाँ२ऽउपागा॑ऽइ॒दम॒हं म॑नु॒ष्यान्त्स॒ह रा॒यस्पोषे॑ण॒ स्वाहा॒ निर्वरु॑णस्य॒ पाशा॑न्मुच्ये॥३९॥

देव॑। स॒वि॒तः॒। ए॒षः। ते॒। सोमः॑। तम्। र॒क्ष॒स्व॒। मा। त्वा॒। द॒भ॒न्। ए॒तत्। त्वम्। दे॒व॒। सो॒म॒। दे॒वः। दे॒वान्। उप॑। अ॒गाः॒। इ॒दम्। अ॒हम्। म॒नु॒ष्या॒न्। स॒ह। रा॒यः। पोषे॑ण। स्वाहा॑। निः। वरु॑णस्य। पाशा॑त्। मु॒च्ये॒ ॥३९॥

Mantra without Swara
देव सवितरेष ते सोमस्तँ रक्षस्व मा त्वा दभन् । एतत्त्वन्देव सोम देवो देवाँऽउपागा इदमहम्मनुष्यान्त्सह रायस्पोषेण स्वाहा निर्वरुणस्य पाशान्मुच्ये ॥

देव। सवितः। एषः। ते। सोमः। तम्। रक्षस्व। मा। त्वा। दभन्। एतत्। त्वम्। देव। सोम। देवः। देवान्। उप। अगाः। इदम्। अहम्। मनुष्यान्। सह। रायः। पोषेण। स्वाहा। निः। वरुणस्य। पाशात्। मुच्ये॥३९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(देव) सकलविद्याद्योतक (सवितः) ऐश्वर्यवन् (एषः) प्रत्यक्षः (ते) तव (सोमः) ऐश्वर्यसमूहः (तम्) (रक्षस्व) अत्र व्यत्ययेनात्मनेपदम्। (मा) निषेधे (त्वा) त्वाम् (दभन्) हिंस्युः, अत्र लिङर्थे लङ[भावश्च। (एतत्) एतस्मात् (त्वम्) सभाध्यक्षो राजा (देव) सुखप्रद (सोम) सन्मार्गे प्रेरक (देवः) विद्याप्रकाशस्थः (देवान्) दिव्यान् विदुषः (उप) सामीप्ये (अगाः) गच्छ (इदम्) त्वदनुष्ठितं अहम् (मनुष्यान्) मननशीलान् (सह) (रायः) धनसमुदायस्य (पोषेण) पुष्ट्या (स्वाहा) सत्यां वाचं वदन् सन् (निः) नितराम् (वरुणस्य) दुःखेनाच्छादकस्य तिरस्कर्त्तुः (पाशात्) बन्धनात् (मुच्ये) मुक्तो भवामि। अयं मन्त्रः (शत॰३। ६। ३। १८-२०) व्याख्यातः॥३९॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। सर्वेषां मनुष्याणामियं योग्यतास्ति यदप्राप्तस्यैश्वर्यस्य पुरुषार्थेन प्राप्तिस्तद्रक्षोन्नती कृत्वा धार्म्मिकान् मनुष्यान् संगत्यैतेन सत्कृत्य च धर्ममनुष्ठाय विज्ञानमुन्नीय दुःखबन्धनान्मुक्ता भवन्तु॥३९॥
Subject
पुनस्तौ कीदृशावित्युपदिश्यते॥
Anvaya
हे देव सवितः सभाध्यक्ष! यथाऽहं भवत्सहायेन स्वकीयमैश्वर्यं रक्षामि तथा त्वं य एष ते सोमोऽस्ति तं रक्षस्व। यथा मां शत्रवो न हिंसन्ति, तथा त्वा त्वामस्मत्सहाये मा दभन्। हे देव सोम! देवस्त्वं यथैतदेतस्माद् देवानुपागास्तथाऽहमप्युपागाम्। यथाऽहमिदमनुष्ठाय रायस्पोषेण सह वर्त्तमानो मनुष्यान् देवांश्चेत्य वरुणस्य पाशान्निर्मुच्ये तथा त्वमपि निर्मुच्यस्व॥३९॥