Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 5 / Mantra 34

43 Mantra
5/34
Devata- अग्निर्देवता Rishi- मधुच्छन्दा ऋषिः Chhand- स्वराट् ब्राह्मी बृहती, Swara- मध्यमः
Mantra with Swara
मि॒त्रस्य॑ मा॒ चक्षु॑षेक्षध्व॒मग्न॑यः। सगराः॒ सग॑रा स्थ॒ सग॑रेण॒ नाम्ना॒ रौद्रे॒णानी॑केन पा॒त मा॑ग्नयः पिपृ॒त मा॑ग्नयो गोपा॒यत॑ मा॒ नमो॑ वोऽस्तु॒ मा मा॑ हिꣳसिष्ट॥३४॥

मित्र॒स्य॑। मा॒। चक्षु॑षा। ईक्ष॒ध्व॒म्। अग्न॑यः। स॒ग॒राः। स्थ॒। सग॑रेण। नाम्ना॑ रौद्रे॑ण। अनी॑केन। पा॒त। मा॒। अ॒ग्न॒यः॒। पि॒पृ॒त। मा॒। अग्न॑यः। गो॒पा॒यत॑ मा॒। नमः॑। वः॒। अ॒स्तु॒। मा। मा॒। हिं॒सि॒ष्ट॒ ॥३४॥

Mantra without Swara
मित्रस्य मा चक्षुषेक्षध्वमग्नयः सगराः सगरा स्थ सगरेण नाम्ना रौद्रेणानीकेन पात माग्नयः पिपृत माग्नयो गोपायत मा नमो वोस्तु मा मा हिँसिष्ट ॥

मित्रस्य। मा। चक्षुषा। ईक्षध्वम्। अग्नयः। सगराः। स्थ। सगरेण। नाम्ना रौद्रेण। अनीकेन। पात। मा। अग्नयः। पिपृत। मा। अग्नयः। गोपायत मा। नमः। वः। अस्तु। मा। मा। हिंसिष्ट॥३४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(मित्रस्य) सुहृदः (मा) माम् (चक्षुषा) दृष्ट्या (ईक्षध्वम्) संप्रेक्षध्वम् (अग्नयः) नेतारो नयन्ति श्रेष्ठान् पदार्थान् (सगराः) सगरोऽन्तरिक्षमवकाशो येषान्ते। अर्शआदित्वादच्। (सगराः) सगरोऽन्तरिक्षं विद्योपदेशावकाशो येषां ते (स्थ) भवत (सगरेण) अन्तरिक्षेण सह (नाम्ना) प्रसिद्ध्या (रौद्रेण) शत्रुरोदयितॄणामिदं तेन (अनीकेन) सैन्येन (पात) रक्षत (मा) माम् (अग्नयः) ज्ञानवन्तः (पिपृत) विद्यागुणैः पूर्णान् कुरुत (मा) माम् (अग्नयः) सभाध्यक्षादयः (गोपायत) पालयत (मा) माम् (नमः) नमस्कारः (वः) युष्मभ्यम् (अस्तु) भवतु (मा) निषेधे (मा) माम् (हिंसिष्ट)॥३४॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यथा विद्यादानेन विद्वांसः सर्वान् मनुष्यान् सुखयन्ति, तथैतान् कार्य्येषु विद्ययोपयुक्ताः सन्तोऽध्येतारोऽपि सुखयन्तु॥३४॥
Subject
पुनर्विद्वांसः कीदृशाः सन्तीत्युपदिश्यते॥
Anvaya
हे विद्वांस! सगरा अग्नयो यूयं मां मित्रस्य चक्षुषेक्षध्वम्, यूयं सगराः स्थ। हे अग्नयः! सगरेण रौद्रेण नाम्नानीकेन मां पात मां गोपायत मां मा हिंसिष्टैतदर्थं वो युष्मभ्यं नमोऽस्तु॥३४॥