Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 5 / Mantra 32

43 Mantra
5/32
Devata- अग्निर्देवता Rishi- मधुच्छन्दा ऋषिः Chhand- स्वराट् ब्राह्मी त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
उ॒शिग॑सि क॒विरङ्घा॑रिरसि॒ बम्भा॑रिरव॒स्यूर॑सि दुव॑स्वाञ्छु॒न्ध्यूर॑सि मार्जा॒लीयः॑। स॒म्राड॑सि कृ॒शानुः॑ परि॒षद्यो॑ऽसि॒ पव॑मानो॒ नभो॑ऽसि प्र॒तक्वा॑ मृ॒ष्टोऽसि हव्य॒सूद॑नऽऋ॒तधा॑मासि॒ स्वर्ज्योतिः॥३२॥

उ॒शिक्। अ॒सि॒। क॒विः। अङ्घा॑रिः। अ॒सि॒। बम्भा॑रिः। अ॒व॒स्यूः। अ॒सि॒। दुव॑स्वान्। शु॒न्ध्यूः। अ॒सि॒। मा॒र्जा॒लीयः॑। स॒म्राडिति॑ स॒म्ऽराट्। अ॒सि॒। कृ॒शानुः॑। प॒रि॒षद्यः॑। प॒रि॒षद्य॒ इति॑ परि॒ऽसद्यः॑। अ॒सि॒। पव॑मानः। नभः॑। अ॒सि॒। प्र॒तक्वेति॑ प्र॒ऽतक्वा॑। मृ॒ष्टः। अ॒सि॒। ह॒व्य॒सूद॑न॒ इति॑ हव्य॒ऽसूद॑नः। ऋ॒तधा॒मेत्यृ॒तऽधा॑मा। अ॒सि॒। स्व॑र्ज्योति॒रिति॒ स्वः॑ऽज्योतिः॑ ॥३२॥

Mantra without Swara
उशिगसि कविरङ्ङ्घारिरसि बम्भारिरवस्यूरसि दुवस्वाञ्छुन्ध्यूरसि मार्जालीयः सम्राडसि कृशानुः परिषद्यो सि पवमानो नभोसि प्रतक्वा मृष्टोसि हव्यसूदनऽऋतधामासि स्वर्ज्यातिः समुद्रोसि ॥

उशिक्। असि। कविः। अङ्घारिः। असि। बम्भारिः। अवस्यूः। असि। दुवस्वान्। शुन्ध्यूः। असि। मार्जालीयः। सम्राडिति सम्ऽराट्। असि। कृशानुः। परिषद्यः। परिषद्य इति परिऽसद्यः। असि। पवमानः। नभः। असि। प्रतक्वेति प्रऽतक्वा। मृष्टः। असि। हव्यसूदन इति हव्यऽसूदनः। ऋतधामेत्यृतऽधामा। असि। स्वर्ज्योतिरिति स्वःऽज्योतिः॥३२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(उशिक्) कान्तिमान् (असि) (कविः) क्रान्तप्रज्ञः क्रान्तदर्शनो वा (अङ्घारिः) अङ्घस्य कुटिलगामिनो जीवस्यारिः शत्रुः (असि) (बम्भारिः) बन्धस्यारिः, अत्र वर्णव्यत्येन धस्य भः। (अवस्यूः) योऽवसीव्यति तारादितन्तून् सन्तानयति येन वा सः (असि) (दुवस्वान्) दुवः प्रशस्तं परिचरणं विद्यते यस्य सः (शुन्ध्यूः) शुद्धः (असि) (मार्जालीयः) शोधकः। स्थाचतिमृजेरालज्वालञालीयचः। (उणा॰१।११६) अनेन सूत्रेणात्र मृजूष् शुद्धौ इत्यस्मादालीयच् प्रत्ययः। (सम्राट्) यथा सम्यग्राजते तथा (असि) (कृशानुः) तनूकर्त्ता (परिषद्यः) परिषदि भवः (असि) (पवमानः) पवित्रकारकः (नभः) यो नभते हन्ति परपदार्थहर्त्तॄन् सः। नभत इति वधकर्मसु पठितम्। (निघं॰२।१९)(असि) (प्रतक्वा) यथा प्रतकति प्रकर्षेण हर्षतीति। अत्र अन्येभ्योऽपि दृश्यन्ते। [अष्टा॰३.२.७५] इति वनिप्, तथा (मृष्टः) यो मर्षति मार्षयति वा (असि) (हव्यसूदनः) यथा हव्यानि सूदते तथा (ऋतधामा) यथा सत्यं जलं वा दधाति तथा (असि) (स्वर्ज्योतिः) यथा स्वरन्तरिक्षलोकसमूहं द्योतते तथा॥३२॥
Essence
अत्रोपमालङ्कारः। येन जगदीश्वरेण यादृग्गुणं जगन्निर्मितं तादृग्गुणेन प्रसिद्धः स सर्वैर्मनुष्यैरुपासनीयः॥३२॥
Subject
पुनस्तौ कीदृशावित्युपदिश्यते॥
Anvaya
हे भगवन्! यतस्त्वमुशिगस्यङ्घारिः कविरसि, बम्भारिरवस्यूरसि, दुवस्वान् शुन्ध्यूर्मार्जालीयोऽसि, पवमानः परिषद्योऽसि, यथा प्रतक्वा तथान्तरिक्षप्रकाशका नभोऽसि, यथा हव्यसूदनस्तथा मृष्टोऽसि, यथा स्वर्ज्योतिर्ऋतधामाऽसि तथा सत्यस्थायी वर्त्तसे, तथैव तत्तद्गुणेन प्रसिद्धो भवान् सर्वैरुपासनीयोऽस्तीति विजानीमः॥३२॥