Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 5 / Mantra 25

43 Mantra
5/25
Devata- यज्ञो देवता Rishi- औतथ्यो दीर्घतमा ऋषिः Chhand- ब्राह्मी बृहती,आर्षी पङ्क्ति, Swara- मध्यमः, पञ्चमः
Mantra with Swara
र॒क्षो॒हणो॑ वो बलग॒हनः॒ प्रोक्षा॑मि वैष्ण॒वान् र॑क्षो॒हणो॑ वो बलग॒हनोऽव॑नयामि वैष्ण॒वान् र॑क्षो॒हणो॑ वो बलग॒हनोऽव॑स्तृणामि वैष्ण॒वान् र॑क्षो॒हणौ॑ वां बलग॒हना॒ऽउप॑दधामि वैष्ण॒वी र॑क्षो॒हणौ॑ वां बलग॒हनौ॒ पर्यू॑हामि वैष्ण॒वी वै॑ष्ण॒वम॑सि वैष्ण॒वा स्थ॑॥२५॥

र॒क्षो॒हणः॑। र॒क्षो॒हन॒ इति॑ रक्षः॒ऽहनः॑। वः॒। ब॒ल॒ग॒हन॒ इति॑ बलग॒ऽहनः॑। प्र। उ॒क्षा॒मि॒। वै॒ष्ण॒वान्। र॒क्षो॒हणः॑। र॒क्षो॒हन॒ इति॑ रक्षः॒ऽहनः॑। वः॒। ब॒ल॒ग॒हन॒ इति॑ बलग॒ऽहनः॑। अव॑। न॒या॒मि॒। वै॒ष्ण॒वान्। र॒क्षो॒हणः॑। र॒क्षो॒हन॒ इति॑ रक्षः॒ऽहनः॑। वः॒। ब॒ल॒ग॒हन॒ इति॑ बलग॒ऽहनः॑। अव॑। स्तृ॒णा॒मि॒। वै॒ष्ण॒वान्। र॒क्षो॒हणौ॑। र॒क्षो॒हना॒विति॑ रक्षः॒ऽहनौ॑। वा॒म्। ब॒ल॒ग॒हना॒विति॑ बलग॒ऽहनौ॑। उप॑। द॒धा॒मि॒। वै॒ष्ण॒वीऽइति॑ वैष्ण॒वी। र॒क्षो॒हणौ॑। र॒क्षो॒हना॒विति॑ रक्षः॒ऽहनौ॑। वा॒म्। ब॒ल॒ग॒हना॒विति॑ बलग॒ऽहनौ॑। परि॑। ऊ॒हा॒मि॒। वैष्ण॒वीऽइति॑ वैष्ण॒वी। वै॒ष्ण॒वम्। अ॒सि॒। वै॒ष्ण॒वाः। स्थः॒। ॥२५॥

Mantra without Swara
रक्षोहणो वो वलगहनः प्रोक्षामि वैष्णवान्रक्षोहणो वो वलगहनोवनयामि वैष्णवान्रक्षोहणो वो वलगहनोवस्तृणामि वैष्णवान्रक्षोहणौ वाँवलगहनाऽउप दधामि वैष्णवी रक्षोहणौ वाँवलगहनौ पर्यूहामि वैष्णवी वैष्णवमसि वैष्णवा स्थ ॥

रक्षोहणः। रक्षोहन इति रक्षःऽहनः। वः। बलगहन इति बलगऽहनः। प्र। उक्षामि। वैष्णवान्। रक्षोहणः। रक्षोहन इति रक्षःऽहनः। वः। बलगहन इति बलगऽहनः। अव। नयामि। वैष्णवान्। रक्षोहणः। रक्षोहन इति रक्षःऽहनः। वः। बलगहन इति बलगऽहनः। अव। स्तृणामि। वैष्णवान्। रक्षोहणौ। रक्षोहनाविति रक्षःऽहनौ। वाम्। बलगहनाविति बलगऽहनौ। उप। दधामि। वैष्णवीऽइति वैष्णवी। रक्षोहणौ। रक्षोहनाविति रक्षःऽहनौ। वाम्। बलगहनाविति बलगऽहनौ। परि। ऊहामि। वैष्णवीऽइति वैष्णवी। वैष्णवम्। असि। वैष्णवाः। स्थः।॥२५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(रक्षोहणः) यथा यूयं ये रक्षांसि दुःखानि हथ तथा (वः) युष्मानेतांश्च (बलगहनः) यथा यो बलानि गाहते तथा भूतोऽहम् (प्र) प्रकृष्टार्थे (उक्षामि) सिञ्चामि (वैष्णवान्) विष्णुर्यज्ञो देवता येषां तान् (रक्षोहणः) यथा यूयं रक्षांसि दुष्टान् दस्य्वादीन् हथ तथा तान् (वः) युष्मानेतान् वा (बलगहनः) यथा यो बलानि शत्रुसैन्यानि गाहते तथाऽहम् (अव) विनिग्रहार्थे (नयामि) प्राप्नोमि प्रापयामि वा (वैष्णवान्) विष्णोर्यज्ञस्येमान् (रक्षोहणः) यथा यूयं रक्षांसि शत्रून् हथ तथाऽहं तान् (वः) युष्मानेतान् वीरान् वा (बलगहनः) यथाऽहं बलानि स्वसैन्यानि गाहे तथा व्यूहशिक्षया विलोडयत (अव) विनिग्रहे (स्तृणामि) आच्छादयामि (वैष्णवान्) यज्ञानुष्ठातॄन् (रक्षोहणौ) यथा रक्षसां हन्तारौ प्रजासभाद्यध्यक्षौ तथाऽहम् (वाम्) उभौ (बलगहनौ) यथा युवां बलानि गाहेथे तथाऽहम् (उप) सामीप्ये (दधामि) धरामि (वैष्णवी) विष्णोरियं क्रिया (रक्षोहणौ) यथा रक्षसां शत्रूणां हन्तारौ भवथस्तथाऽहम् (वाम्) उभौ (बलगहनौ) यथा युवां बलानि गाहेथे तथाऽहम् (परि) सर्वतः (ऊहामि) तर्केण निश्चिनोमि (वैष्णवी) विष्णोः समग्रविद्याव्यापकस्येयं रीतिस्ताम् (वैष्णवम्) विष्णोरिदं विज्ञानम् (असि) अस्ति (वैष्णवाः) विष्णोर्व्यापकस्येम उपासकाः (स्थ) भवत। अयं मन्त्रः (शत॰३। ५। ४। १८-२४) व्याख्यातः॥२५॥
Essence
अत्र वाचकलुप्तोपमालङ्कारौ। मनुष्यैः परमेश्वरोपासनायुक्तव्यवहाराभ्यां पूर्णं शरीरात्मबलं सम्पाद्य यज्ञेन प्रजापालनं शत्रून् विजित्य सार्वभौमराज्यं च प्रशासनीयम्॥२५॥
Subject
यजमानः सभाद्यध्यक्षादयो यज्ञानुष्ठातॄन् मनुष्यान् यज्ञसामग्रीं ग्राहयेयुरित्युपदिश्यते॥
Anvaya
हे सभाध्यक्षादयो मनुष्या! यूयं यथा रक्षोहणः स्थ तथा बलगहनोऽहं वो युष्मान् सत्कृत्यैतान् दुष्टान् युद्धे शस्त्रैः प्रोक्षामि। यथा रक्षोहणो यूयं नो दुःखानि हथ, तथा बलगहनोऽहं वो युष्मान् सुखैः संमान्यैतानवनयामि। यथा रक्षोहणो वैष्णवान् वो युष्मानेतांश्चावस्तृणीथ, तथा बलगहनोऽहमेवैतानवस्तृणामि। यथा रक्षोहणौ बलगहनौ यज्ञस्वामिसम्पादकौ वामुपधत्तस्तथैवाहमेतानुपदधामि। यथा रक्षौहणौ बलगहनौ वां या वैष्णवी क्रियास्ति तया पर्यूहतस्तथैवाहमेतां पर्यूहामि यद्वैष्णवं ज्ञानं यूयं सर्वत ऊहथ, तदहमपि पर्यूहामि, यूयं वैष्णवा स्थ तथा वयमपि भवेम॥२५॥