Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 5 / Mantra 23

43 Mantra
5/23
Devata- यज्ञो देवता Rishi- औतथ्यो दीर्घतमा ऋषिः Chhand- याजुषी बृहती,भूरिक् अष्टि,स्वराट् ब्राह्मी उष्णिक्, Swara- मध्यमः, गान्धारः, ऋषभः
Mantra with Swara
र॒क्षो॒हणं॑ बलग॒हनं॑ वैष्ण॒वीमि॒दम॒हं तं ब॑ल॒गमुत्कि॑रामि॒ यं मे॒ निष्ट्यो॒ यम॒मात्यो॑ निच॒खाने॒दम॒हं तं ब॑ल॒गमुत्कि॑रामि॒ यं मे॑ समा॒नो यमस॑मानो निच॒खाने॒दम॒हं तं ब॑ल॒गमुत्कि॑रामि॒ यं मे॒ सब॑न्धु॒र्यमस॑बन्धुर्निच॒खाने॒दम॒हं तं ब॑ल॒गमुत्कि॑रामि॒ यं मे॑ सजा॒तो यमस॑जातो निच॒खानोत्कृ॒त्य-ङ्कि॑रामि॥२३॥

र॒क्षो॒हण॑म्। र॒क्षो॒हन॒मिति॑ रक्षःऽहन॑म्। ब॒ल॒ग॒हन॒मिति॑ बलऽग॒हन॑म्। वै॒ष्ण॒वीम्। इ॒दम्। अ॒हम्। तम्। ब॒ल॒गम्। उत्। कि॒रा॒मि॒। यम्। मे॒। निष्ट्यः॑। यम्। अ॒मात्यः॑। नि॒च॒खानेति॑ निऽच॒खान॑। इ॒दम्। अ॒हम्। तम्। ब॒ल॒गम्। उत्। कि॒रा॒मि॒। यम्। मे॒। स॒मा॒नः। यम्। अस॑मानः। नि॒च॒खानेति॑ निऽच॒खान॑। इ॒दम्। अ॒हम्। तम्। ब॒ल॒गम्। उत्। कि॒रा॒मि॒। यम्। मे॒। सब॑न्धु॒रिति॒ सऽब॑न्धुः। यम्। अस॑बन्धु॒रित्यस॑ऽबन्धुः। नि॒च॒खानेति॑ निऽच॒खान॑। इ॒दम्। अ॒हम्। तम्। ब॒ल॒गम्। उत्। कि॒रा॒मि॒। यम्। मे॒। स॒जा॒त इति॑ सऽजा॒तः। यम्। अस॑जातः। नि॒च॒खानेति॑ निऽच॒खान॑। उत्। कृ॒त्याम्। कि॒रा॒मि॒ ॥२३॥

Mantra without Swara
रक्षोहणँवलगहनँवैष्णवीमिदमहन्तँ वलगमुत्किरामि यम्मे निष्ट्यो यममात्यो निचखानेदमहन्तँ वलगमुत्किरामि यम्मे समानो यमसमानो निचखानेदमहन्तँ वलगमुत्किरामि यम्मे सबन्धुर्यमसबन्धुर्निचखानेदमहन्तँ वलगमुत्किरामि यम्मे सजातो यमसजातो निचखानोत्कृत्याङ्किरामि ॥

रक्षोहणम्। रक्षोहनमिति रक्षःऽहनम्। बलगहनमिति बलऽगहनम्। वैष्णवीम्। इदम्। अहम्। तम्। बलगम्। उत्। किरामि। यम्। मे। निष्ट्यः। यम्। अमात्यः। निचखानेति निऽचखान। इदम्। अहम्। तम्। बलगम्। उत्। किरामि। यम्। मे। समानः। यम्। असमानः। निचखानेति निऽचखान। इदम्। अहम्। तम्। बलगम्। उत्। किरामि। यम्। मे। सबन्धुरिति सऽबन्धुः। यम्। असबन्धुरित्यसऽबन्धुः। निचखानेति निऽचखान। इदम्। अहम्। तम्। बलगम्। उत्। किरामि। यम्। मे। सजात इति सऽजातः। यम्। असजातः। निचखानेति निऽचखान। उत्। कृत्याम्। किरामि॥२३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(रक्षोहणम्) यथा येन धार्मिकेण पुरुषेण रक्षांसि हन्यन्ते तथा (बलगहनम्) यथा यो बलानि गाहते तम्। अत्र गाहूधातोर्बाहुलकादौणादिकः क्युः प्रत्ययो ह्रस्वत्वं च (वैष्णवीम्) विष्णोर्व्यापकस्येमां वाचम् (इदम्) कर्म (अहम्) कर्मानुष्ठाता (तम्) यज्ञम् (बलगम्) बलं गच्छन्तम् (उत्) उत्कृष्टम् (किरामि) विक्षिपामि (यम्) यज्ञम् (मे) मम (निष्ट्यः) नेशन्ति समादधते येन यज्ञेन तत्सहितः साधुर्विद्वान्। अत्र निशधातोर्बाहुलकादौणादिकस्तः प्रत्ययस्ततो यत्। (यम्) यज्ञम् (अमात्यः) मेधावी खानकः प्रधानभृत्यः (निचखान) यथा नितरां खातवान् (इदम्) भूगभविद्यापरीक्षार्थं स्थानम् (अहम्) भूगर्भविद्यावेत्ता (तम्) कृष्याद्याख्यं यज्ञम् (बलगम्) बलप्रापकम् (उत्) उत्कृष्टे (किरामि) (यम्) अध्ययनाध्यापनाख्यम् (मे) मम (समानः) सदृशः (यम्) पूर्वोक्तम् (असमानः) असदृशः (निचखान) यथा नितरां खनति (इदम्) कर्म (अहम्) अध्यापकोऽध्येता वा (तम्) (बलगम्) आत्मबलप्रापकम् (उत्) उत्कृष्टे (किरामि) विक्षपामि (यम्) परस्परं पालनहेतुं यज्ञम् (मे) मम (सबन्धुः) यथा समाना बन्धवो यस्य मित्रस्य सः (यम्) पूर्वोक्तम् (असबन्धुः) यथा असमाना बन्धवो यस्य सः (निचखान) यथा नितरां खातवान् खनति वा (इदम्) कर्म (अहम्) सर्वसुहृत् (तम्) (बलगम्) राज्यबलप्रापकम् (उत्) उत्कृष्टे (किरामि) प्रक्षिपामि (यम्) उत्कर्षप्रापकम् (मे) मम (सजातः) यथा सहैव जातः (यम्) उक्तम् (असजातः) यथा यः सह न जातः (निचखान) यथा नित्यं खातवान् वा (उत्) उत्कृष्टे (कृत्याम्) करोति यया ताम् (किरामि) प्रक्षिपामि। अयं मन्त्रः (शत॰३। ५। ४। ८-१२) व्याख्यातः॥२३॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैरस्यामीश्वरसृष्टौ धार्मिकविद्वदनुकरणं कार्यं नेतरेषामिति॥२३॥
Subject
सृष्टेर्मनुष्यैः कीदृश उपकारो ग्राह्य इत्युपदिश्यते॥
Anvaya
हे विद्वन्मनुष्य! यथा कश्चिद् बलगहनं यथा रक्षोहणं वैष्णवीं वाचमनुष्ठाय यं बलगं यज्ञं यथाहमुत्किरामि तथा त्वमप्येतमुत्किर। यथा कस्यचिन्मे मम निष्ट्योऽमात्यो यं यज्ञमिदं स्थानादि च निचखान, तथा तव भृत्यो निखनतु। यथाऽहं यं बलगं यज्ञमुत्किरामि तथा तं त्वमप्युत्किर। यथा मे मम वा समानोऽसमानश्च यं यज्ञमिदं कर्म च निचखान तथा तवापि निखनतु। यथाहं यं बलगं यज्ञमुत्किरामि तथा त्वमप्येतमुत्किर। यथा मे मम सबन्धुरसबन्धुश्च यं यज्ञमिदं कर्म च निचखान, तथा तवापि चैतं निखनतु। यथाऽहं यं बलगं यज्ञमुत्किरामि तथा त्वमप्येतमुत्किर। यथा मे मम सजातोऽसजातश्च यं यज्ञं कृत्यां निचखान तथा तवाप्येतमेतां च निखनतु। यथाहमेतत् सर्वमुत्किरामि तथा त्वमप्येनमुत्किर॥२३॥