Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 5 / Mantra 18

43 Mantra
5/18
Devata- विष्णुर्देवता Rishi- औतथ्यो दीर्घतमा ऋषिः Chhand- स्वराट् आर्षी त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
विष्णो॒र्नु कं॑ वी॒र्याणि॒ प्रवो॑चं॒ यः पार्थि॑वानि विम॒मे रजा॑सि। योऽअस्क॑भाय॒दुत्त॑रꣳ स॒धस्थं॑ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यो विष्ण॑वे त्वा॥१८॥

विष्णोः॑। नु। क॒म्। वी॒र्या᳖णि। प्र। वो॒च॒म्। यः। पार्थि॑वानि। वि॒म॒मऽइति॑ विऽम॒मे। रजा॑सि। यः। अस्क॑भायत्। उत्त॑रमित्युत्ऽत॑रम्। स॒धस्थ॒मिति॑ स॒धऽस्थ॑म्। वि॒च॒क्र॒मा॒ण इति॑ विऽचक्रमा॒णः। त्रे॒धा। उ॒रु॒गा॒यऽइत्यु॑रुऽगा॒यः। विष्ण॑वे। त्वा ॥१८॥

Mantra without Swara
विष्णोर्नु कँवीर्याणि प्र वोचँयः पार्थिवानि विममे रजाँसि । योऽअस्कभायदुत्तरँ सधस्थँविचक्रमाणस्त्रेधोरुगायः विष्णवे त्वा ॥

विष्णोः। नु। कम्। वीर्याणि। प्र। वोचम्। यः। पार्थिवानि। विममऽइति विऽममे। रजासि। यः। अस्कभायत्। उत्तरमित्युत्ऽतरम्। सधस्थमिति सधऽस्थम्। विचक्रमाण इति विऽचक्रमाणः। त्रेधा। उरुगायऽइत्युरुऽगायः। विष्णवे। त्वा॥१८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(विष्णोः) व्यापकस्य परमेश्वरस्य (नु) शीघ्रम् (कम्) सुखस्वरूपम् (वीर्याणि) पराक्रमयुक्तानि कर्माणि (प्र) प्रकृष्टार्थे (वोचम्) कथयेयम् (यः) अनन्तपराक्रमः (पार्थिवानि) पृथिव्या विकारा अन्तरिक्षे विदितानि वा। अत्र तत्र विदित इति च। (अष्टा॰५।१।४३) अनेनाञ् प्रत्ययः। (विममे) विविधतया मिमीते (रजांसि) लोकान्, लोका रजांस्युच्यन्ते। (निरु॰४।१९) (यः) सर्वाधारः (अस्कभायत्) प्रतिबध्नाति (उत्तरम्) अन्तावयवम् (सधस्थम्) यत्सह तिष्ठति तत्कारणं सत्सङ्गृह्य (विचक्रमाणः) यथायोग्यं जगद्रचनाय कारणपादान् प्रक्षिपन् नियोजयन् (त्रेधा) त्रिःप्रकाराणि (उरुगायः) यो बहूनर्थान् वेदद्वारा गायत्युपदिशति सः (विष्णवे) व्यापनशीलाय यज्ञाय (त्वा) त्वाम्। अयं मन्त्रः (शत॰३। ५। ३। २१) व्याख्यातः॥१८॥
Essence
सर्वैर्मनुष्यैर्येन परमेश्वरेण पृथिवीसूर्यत्रसरेणुभेदेन त्रिविधं जगद्रचित्वा ध्रियते स एवोपासनीयः॥१८॥
Subject
अथ व्यापकेश्वरगुणा उपदिश्यन्ते॥
Anvaya
हे मनुष्या! यूयं यो विचक्रमाण उरुगायो विष्णुर्जगदीश्वरः पार्थिवानि रजांसि त्रेधा विममे, यः उत्तरसधस्थमस्कभायत् प्रतिबध्नाति, यो विष्णवे उपासनादियज्ञायाश्रीयते यस्य विष्णोर्वीर्याणि विद्वांसो वदन्ति, यं सर्वे संश्रयन्ते, कं सुखरूपं देवमहं प्रवोचं नु शीघ्रमाश्रये॥१८॥