Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 40 / Mantra 10

17 Mantra
40/10
Devata- आत्मा देवता Rishi- दीर्घतमा ऋषिः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
अ॒न्यदे॒वाहुः स॑म्भ॒वाद॒न्यदा॑हु॒रस॑म्भवात्।इति॑ शुश्रुम॒ धीरा॑णां॒ ये न॒स्तद्वि॑चचक्षि॒रे॥१०॥

अ॒न्यत्। ए॒व। आ॒हुः। स॒म्भ॒वादिति॑ सम्ऽभ॒वात्। अ॒न्यत्। आ॒हुः। अस॑म्भवा॒दित्यस॑म्ऽभवात् ॥ इति॑। शु॒श्रु॒म॒। धीरा॑णाम्। ये। नः॒। तत्। वि॒च॒च॒क्षि॒र इति॑ विऽचचक्षि॒रे ॥१० ॥

Mantra without Swara
अन्यदेवाहुः सम्भवादन्यदाहुर्शम्भवात् । इति शुश्रुम धीराणाँये नस्तद्विचचक्षिरे ॥

अन्यत्। एव। आहुः। सम्भवादिति सम्ऽभवात्। अन्यत्। आहुः। असम्भवादित्यसम्ऽभवात्॥ इति। शुश्रुम। धीराणाम्। ये। नः। तत्। विचचक्षिर इति विऽचचक्षिरे॥१०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अन्यत्) कार्य्यं फलं वा (एव) (आहुः) कथयन्ति (सम्भवात्) संयोगजन्यात् कार्य्यात् (अन्यत्) भिन्नम् (आहुः) कथयन्ति (असम्भवात्) अनुत्पन्नात् कारणात् (इति) अनेन प्रकारेण (शुश्रुम) शृणुमः (धीराणाम्) मेधाविनां विदुषां योगिनाम् (ये) (नः) अस्मान् प्रति (तत्) तयोर्विवेचनम् (विचचक्षिरे) व्याचक्षते॥१०॥
Essence
हे मनुष्याः! यथा विद्वांसः कार्य्यात् कारणाद् वस्तुनो भिन्नम्भिन्नं वक्ष्यमाणमुपकारं गृह्णन्ति ग्राहयन्ति तद्गुणान् विज्ञायाधिज्ञापयन्त्येवमेव यूयमपि निश्चिनुत॥१०॥
Subject
पुनर्मनुष्याः किं कुर्य्युरित्याह॥
Anvaya
हे मनुष्याः! यथा वयं धीरणां सकाशाद् यद् वचः शुश्रुम ये नस्तद्विचचक्षिरे ते सम्भवादन्यदेवाहुर- सम्भवादन्यदाहुरिति यूयमपि शृणुत॥१०॥