Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 4 / Mantra 9

37 Mantra
4/9
Devata- विद्वान् देवता Rishi- आङ्गिरस ऋषयः Chhand- आर्षी पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
ऋ॒क्सा॒मयोः॒ शिल्पे॑ स्थ॒स्ते वा॒मार॑भे॒ ते मा॑ पात॒मास्य य॒ज्ञस्यो॒दृचः॑। शर्मा॑सि॒ शर्म॑ मे यच्छ॒ नम॑स्तेऽअस्तु॒ मा मा॑ हिꣳसीः॥९॥

ऋक्सा॒मयो॒रित्यृ॑क्ऽसा॒मयोः॑। शि॒ल्पे॒ऽइति॒ शि॒ल्पे॑। स्थः॒। तेऽइति॒ ते। वा॒म्। आ। र॒भे॒। तेऽइति॒ ते। मा॒। पा॒त॒म्। आ। अ॒स्य। य॒ज्ञस्य॑। उ॒दृचः॒ इत्यु॒त्ऽऋचः॑। शर्म्म॑। अ॒सि॒। शर्म्म॑। मे॒। य॒च्छ॒। नमः॑। ते॒। अ॒स्तु॒। मा। मा॒। हि॒ꣳसीः॒ ॥९॥

Mantra without Swara
ऋक्सामयोः शिल्पे स्थस्ते वामारभे ते मा पातमास्य यज्ञस्योदृचः । शर्मासि शर्म मे यच्छ नमस्ते अस्तु मा मा हिँसीः ॥

ऋक्सामयोरित्यृक्ऽसामयोः। शिल्पेऽइति शिल्पे। स्थः। तेऽइति ते। वाम्। आ। रभे। तेऽइति ते। मा। पातम्। आ। अस्य। यज्ञस्य। उदृचः इत्युत्ऽऋचः। शर्म्म। असि। शर्म्म। मे। यच्छ। नमः। ते। अस्तु। मा। मा। हिꣳसीः॥९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(ऋक्सामयोः) ऋक् च साम च तयोर्वेदयोः, अध्ययनानन्तरम् (शिल्पे) मानसप्रसिद्धक्रियया सिद्धे (स्थः) भवतः (ते) द्वे (वाम्) ये (आ) समन्तात् (रभे) आरम्भं कुर्वे (ते) द्वे (मा) माम् (पातम्) रक्षतः, अत्र व्यत्ययः (आ) अभितः (अस्य) वक्ष्यमाणस्य (यज्ञस्य) शिल्पविद्यासिद्धस्य यज्ञस्य (उदृचः) उत्कृष्टा अधीताः प्रत्यक्षीकृता ऋचो यस्मिंस्तस्य (शर्म्म) सुखम् (असि) अस्ति (शर्म्म) सुखम् (मे) मह्यम् (यच्छ) ददाति। अत्र व्यत्ययो लडर्थे लोट् च (नमः) अन्नम्। नम इत्यन्ननामसु पठितम्। (निघं॰२.७) (ते) तुभ्यम् (अस्तु) भवतु (मा) निषेधार्थे (मा) माम् (हिꣳसीः) हिन्धि, अत्र लोडर्थे लुङ्। अयं मन्त्रः (शत॰३.२.१.५-८) व्याख्यातः॥९॥
Essence
मनुष्यैर्विदुषां सकाशाद् वेदानधीत्य शिल्पविद्यां प्राप्य हस्तक्रिया साक्षात्कृत्य विमानयानादीनि कार्य्याणि निष्पाद्य सुखोन्नतिः कार्य्या॥९॥
Subject
मनुष्यैः कथं शिल्पसिद्धिः कर्त्तव्येत्युपदिश्यते॥
Anvaya
हे विद्वन्नहमृक्सामयोरध्ययनानन्तरमुदृचोऽस्य यज्ञस्य सम्बन्धिनी वां ये शिल्पे आरभे। ये मा मां पात रक्षतो ये यस्य तव सकाशान्मया गृह्येते ते तुभ्यं मम नमोऽस्तु, त्वं मा मां शिल्पविद्यां शिक्षस्व मा हिंसीर्विचालनं वा कुर्य्याः। यच्छर्म सुखमस्ति, तच्छर्म मे मह्यं यच्छ देहि॥९॥