Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 4 / Mantra 31

37 Mantra
4/31
Devata- वरुणो देवता Rishi- वत्स ऋषिः Chhand- विराट् आर्षी त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
वने॑षु॒ व्यन्तरि॑क्षं ततान॒ वाज॒मर्व॑त्सु॒ पय॑ऽउ॒स्रिया॑सु। हृ॒त्सु क्रतुं॒ वरु॑णो वि॒क्ष्वग्निं दि॒वि सूर्य॑मदधा॒त् सोम॒मद्रौ॑॥३१॥

वने॑षु। वि। अ॒न्तरि॑क्षम्। त॒ता॒न॒। वाज॑म्। अर्व॒त्स्वित्यर्व॑त्ऽसु। पयः॑। उ॒स्रिया॑सु। हृ॒त्स्विति॑ हृ॒त्ऽसु। क्रतु॑म्। वरु॑णः। वि॒क्षु। अ॒ग्निम्। दि॒वि। सूर्य्य॑म्। अ॒द॒धा॒त्। सोम॑म्। अद्रौ॑ ॥३१॥

Mantra without Swara
वनेषु व्यन्तरिक्षन्ततान वाजमर्वत्सु पय उस्रियासु हृत्सु क्रतुँ वरुणो विक्ष्वग्निन्दिवि सूर्यमदधात्सोममद्रौ ॥

वनेषु। वि। अन्तरिक्षम्। ततान। वाजम्। अर्वत्स्वित्यर्वत्ऽसु। पयः। उस्रियासु। हृत्स्विति हृत्ऽसु। क्रतुम्। वरुणः। विक्षु। अग्निम्। दिवि। सूर्य्यम्। अदधात्। सोमम्। अद्रौ॥३१॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(वनेषु) रश्मिषु वृक्षसमूहेषु वा। वनमिति रश्मिनामसु पठितम्। (निघं॰१.५) (वि) विशेषार्थे (अन्तरिक्षम्) आकाशम् (ततान) विस्तारितवान् विस्तारयत वा (वाजम्) वेगम् (अर्वत्सु) अश्वेषु आप्तवेगगुणेषु विद्युदादिषु वा। अर्वेत्यश्वनामसु पठितम्। (निघं॰१.१४) (पयः) दुग्धम् (उस्रियासु) गोषु। उस्रियेति गोनामसु पठितम्। (निघं॰२.११) (हृत्सु) हृदयेषु (क्रतुम्) प्रज्ञां कर्म वा (वरुणः) परमेश्वरः सूर्य्यो वायुर्वा (विक्षु) प्रजासु (अग्निम्) विद्युतं प्रसिद्धमग्निं वा (दिवि) प्रकाशे (सूर्य्यम्) सवितारम् (अदधात्) धत्तवान् दधाति वा (सोमम्) अमृतात्मकं रसं सोमवल्याद्योषधीगणं वा (अद्रौ) मेघे शैले वा। अद्रिरिति मेघनामसु पठितम्। (निघं॰१.१०) अयं मन्त्रः (शत॰३.३.४.७) व्याख्यातः॥३१॥
Essence
अत्र श्लेषालङ्कारः। यथा परमेश्वरः स्वविद्याप्रकाशजगद्रचनाभ्यां सर्वेषु पदार्थेषु तत्तत्स्वभावयुक्तान् गुणान् संस्थाप्य विज्ञानादिकं वायुसूर्य्यादिकं च विस्तृणोति, तथैव वायुसूर्य्यावपि सर्वेभ्यः सुखं विस्तारयतः॥३१॥
Subject
पुनस्ते कीदृशा इत्युपदिश्यते॥
Anvaya
यो वरुणः परमेश्वरः सूर्य्यो वायुर्वा वनेषु किरणेष्वरण्येषु वान्तरिक्षं विततानार्वत्सु वाजमुस्रियासु पयो हृत्सु क्रतुं विक्ष्वग्निं दिवि सूर्य्यमद्रौ सोमं चादधात्, स एव सर्वैरुपास्यः सम्यगुपयोजनीयो वास्ति॥३१॥