Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 4 / Mantra 29

37 Mantra
4/29
Devata- अग्निर्देवता Rishi- वत्स ऋषिः Chhand- निचृत् आर्षी अनुष्टुप् Swara- गान्धारः
Mantra with Swara
प्रति॒ पन्था॑मपद्महि स्वस्ति॒गाम॑ने॒हस॑म्। येन॒ विश्वाः॒ परि॒ द्विषो॑ वृ॒णक्ति॑ वि॒न्दते॒ व॒सु॑॥२९॥

प्रति॑। पन्था॑म्। अ॒प॒द्म॒हि॒। स्व॒स्ति॒गामिति॑ स्वस्ति॒ऽगाम्। अ॒ने॒हस॑म्। येन॑। विश्वाः॑। परि॑। द्विषः॑। वृ॒णक्ति॑। वि॒न्दते॑। वसु॑ ॥२९॥

Mantra without Swara
प्रति पन्थामपद्महि स्वस्तिगामनेहसम् येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु ॥

प्रति। पन्थाम्। अपद्महि। स्वस्तिगामिति स्वस्तिऽगाम्। अनेहसम्। येन। विश्वाः। परि। द्विषः। वृणक्ति। विन्दते। वसु॥२९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(प्रति) प्रत्यक्षे वीप्सायां च (पन्थाम्) मार्गं मार्गम् (अपद्महि) प्राप्नुयाम (स्वतिगाम्) स्वस्ति सुखं गच्छति येन तम्। अत्र जनसनखन॰। (अष्टा॰३.२.६७) अनेन विट् प्रत्ययः (अनेहसम्) अविद्यमाननि एहांसि हननानि यस्मिंस्तम्। अत्र नञि हन एह च। (उणा॰४.२२४) अनेनायं सिद्धः (येन) मार्गेण (विश्वाः) सर्वाः (परि) सर्वतः (द्विषः) द्विषन्ति अप्रीणयन्ति याभ्यः शत्रुसेनाभ्यो दुःखक्रियाभ्यो वा ताः। अत्र कृतो बहुलम्। [अष्टा॰३.३.११३] इति हेतौ क्विप् (वृणक्ति) वर्जयति, अत्रान्तर्गतो ण्यर्थः (विन्दते) लभते (वसु) सुखकारकं धनम्। अयं मन्त्रः (शत॰३.३.३.१५-१६) व्याख्यातः॥२९॥
Essence
मनुष्यैर्द्वेषादित्यागाय विद्याधनप्राप्तये धर्ममार्गप्रकाशायेश्वरप्रार्थना धर्मविद्वत्सेवा च नित्यं कार्य्या॥२९॥
Subject
पुनः स किमर्थं प्रार्थनीय इत्युपदिश्यते॥
Anvaya
हे जगदीश्वराग्ने! त्वदनुगृहीता पुरुषार्थिनो भूत्वा वयं येन विद्वान् विश्वा द्विषः परिवृणक्ति वसु विदन्ते, तमनेहसं स्वस्तिगां पन्थां मार्गं प्रत्यपद्महि प्रत्यक्षतया व्याप्त्या प्राप्नुयाम॥२९॥