Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 4 / Mantra 26

37 Mantra
4/26
Devata- यज्ञो देवता Rishi- वत्स ऋषिः Chhand- भूरिक् ब्राह्मी पङ्क्ति, Swara- पञ्चमः
Mantra with Swara
शु॒क्रं त्वा॑ शु॒क्रेण॑ क्रीणामि च॒न्द्रं च॒न्द्रेणा॒मृत॑म॒मृते॑न। स॒ग्मे ते॒ गोर॒स्मे ते॑ च॒न्द्राणि॒ तप॑सस्त॒नूर॑सि प्र॒जाप॑ते॒र्वर्णः॑ पर॒मेण॑ प॒शुना॑ क्रीयसे सहस्रपो॒षं पु॑षेयम्॥२६॥

शु॒क्रम्। त्वा॒। शु॒क्रेण॑। क्री॒णा॒मि॒। च॒न्द्रम्। च॒न्द्रेण॑। अ॒मृत॑म्। अ॒मृते॑न। स॒ग्मे। ते॒। गोः। अ॒स्मे इत्य॒स्मे। ते॒। च॒न्द्राणि॑। तप॑सः। त॒नूः। अ॒सि॒। प्र॒जाप॑ते॒रिति॑ प्र॒जाऽप॑तेः। वर्णः॑। प॒र॒मेण॑। प॒शुना॑। क्री॒य॒से॒। स॒ह॒स्र॒पो॒षमिति॑ सहस्रऽपो॒षम्। पु॒षे॒य॒म् ॥२६॥

Mantra without Swara
शुक्रन्त्वा शुक्रेण क्रीणामि चन्द्रञ्चन्द्रेणामृतममृतेन । सग्मे ते गोरस्मे ते चन्द्राणि तपसस्तनूरसि प्रजापतेर्वर्णः परमेण पशुना क्रीयसे सहस्रपोषम्पुषेयम् ॥

शुक्रम्। त्वा। शुक्रेण। क्रीणामि। चन्द्रम्। चन्द्रेण। अमृतम्। अमृतेन। सग्मे। ते। गोः। अस्मे इत्यस्मे। ते। चन्द्राणि। तपसः। तनूः। असि। प्रजापतेरिति प्रजाऽपतेः। वर्णः। परमेण। पशुना। क्रीयसे। सहस्रपोषमिति सहस्रऽपोषम्। पुषेयम्॥२६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(शुक्रम्) शुद्धिकारकम् (त्वा) तं क्रियामयं यज्ञम् (शुक्रेण) शुद्धभावेन (क्रीणामि) गृह्णामि (चन्द्रम्) सुवर्णम्। चन्द्रमिति हिरण्यनामसु पठितम्। (निघं॰१.२) (चन्द्रेण) सुवर्णेन (अमृतम्) मोक्षसुखम् (अमृतेन) नाशरहितेन विज्ञानेन (सग्मे) गच्छतीति ग्मा पृथिवी तया सह वर्त्तते तस्मिन् यज्ञे। ग्मेति पृथिवीनामसु पठितम्। (निघं॰१.१) (ते) तव (गोः) पृथिव्याः सकाशात् (अस्मे) अस्मभ्यम् (ते) तव सकाशात् (चन्द्राणि) काञ्चनादीन् धातून् (तपसः) धर्मानुष्ठानस्याग्नेस्तापसस्य वा (तनूः) शरीरम् (असि) अस्ति। अत्र सर्वत्र व्यत्ययः (प्रजापतेः) प्रजानां पतिः पालनहेतुः सूर्य्यस्तस्य (वर्णः) वरीतुं योग्यः (परमेण) प्रकृष्टेन (पशुना) व्यवहृतेन विक्रीतेन गवादिना (क्रीयसे) क्रीयते (सहस्रपोषम्) असंख्यातपुष्टिम् (पुषेयम्) पुष्टो भवेयम्। अयं मन्त्रः (शत॰३.३.३.६-९) व्याख्यातः॥२६॥
Essence
मनुष्यैः शरीरमनोवाग्धनेन परमेश्वरोपासनादिलक्षणं यज्ञं सततमनुष्ठायासंख्याताऽतुला पुष्टिः प्राप्तव्याः॥२६॥
Subject
मनुष्यैः किं कृत्वा यज्ञः साधनीय इत्युपदिश्यते॥
Anvaya
अहं सग्मे या तपसस्तनूर(स्य)स्ति, यः पशुना प्रजापतेर्वर्णः क्रीयसे क्रीयते, तं सहस्रपोषं पुषेयम्। हे विद्वन्! यानि ते तव यस्याः गोः सकाशाच्चन्द्राण्युत्पन्नानि सन्ति, तान्यस्मे अस्मभ्यमपि सन्तु। अहं परमेण शुक्रेण यं शुक्रं यज्ञं चन्द्रेण चन्द्रममृतेनामृतं च क्रीणामि, त्वा तं त्वमपि क्रीणीहि॥२६॥