Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 4 / Mantra 22

37 Mantra
4/22
Devata- वाग्विद्युतौ देवते Rishi- वत्स ऋषिः Chhand- ब्राह्मी पङ्क्ति, Swara- पञ्चमः
Mantra with Swara
अदि॑त्यास्त्वा मू॒र्द्धन्नाजि॑घर्मि देव॒यज॑ने पृथि॒व्याऽइडा॑यास्प॒दम॑सि घृ॒तव॒त् स्वाहा॑। अ॒स्मे र॑मस्वा॒स्मे ते॒ बन्धु॒स्त्वे रायो॒ मे रायो॒ मा व॒यꣳ रा॒यस्पोषे॑ण॒ वियौ॑ष्म॒ तातो॒ रायः॑॥२२॥

अदि॑त्याः। त्वा॒। मू॒र्द्धन्। आ। जि॒घर्मि॒। दे॒व॒यज॑न॒ इति॑ देव॒ऽयज॑ने। पृ॒थि॒व्याः। इडा॑याः। प॒दम्। अ॒सि॒। घृ॒तव॒दि॑ति घृ॒तऽव॑त्। स्वाहा॑। अ॒स्मे॑ऽइत्य॒स्मे। र॒म॒स्व॒। अ॒स्मेऽइत्य॒स्मे। ते॒। बन्धुः॑। त्वेऽइति॒ त्वे। रायः॑। मेऽइति॒ मे। रायः॑। मा। व॒यम्। रा॒यः। पोषे॑ण। वि। यौ॒ष्म॒। तोतः॑। रायः॑ ॥२२॥

Mantra without Swara
अदित्यास्त्वा मूर्धन्ना जिघर्मि देवयजने पृथिव्या इडायास्पदमसि घृतवत्स्वाहा । अस्मे रमस्वास्मे ते बन्धुस्त्वे रायो मे रायो मा वयँ रायस्पोषेण वि यौष्म तोतो रायः ॥

अदित्याः। त्वा। मूर्द्धन्। आ। जिघर्मि। देवयजन इति देवऽयजने। पृथिव्याः। इडायाः। पदम्। असि। घृतवदिति घृतऽवत्। स्वाहा। अस्मेऽइत्यस्मे। रमस्व। अस्मेऽइत्यस्मे। ते। बन्धुः। त्वेऽइति त्वे। रायः। मेऽइति मे। रायः। मा। वयम्। रायः। पोषेण। वि। यौष्म। तोतः। रायः॥२२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अदित्याः) अन्तरिक्षस्य। अदितिरन्तरिक्षमित्यस्मादयमर्थो गृह्यते (त्वा) ताम् (मूर्द्धन्) मूर्द्धनि वर्त्तमानाम् (आ) समन्तात् (जिघर्मि) प्रदीप्ये संचालयामि वा (देवयजने) देवानां विदुषां सङ्गतिकरण एतेभ्यो दाने वा (पृथिव्याः) भूमेर्मध्ये (इडायाः) स्तोतुमन्वेष्टुमर्हाया वेदवाण्याः। इडेति वाङ्नामसु पठितम्। (निघं॰१.११) (पदम्) वेदितव्यं प्राप्तव्यं वा (असि) अस्ति (घृतवत्) घृतेन पुष्टिदीप्तिकारकेन तुल्या (स्वाहा) यया क्रियया सुहुतं यजति तस्याः (अस्मे) अस्मासु (रमस्व) रमतां रमतु वा (अस्मे) अस्माकम्। अत्र सर्वत्र सुपां सुलुग्॰। [अष्टा॰७.१.३९] इति शे आदेशः (ते) तव (बन्धुः) भ्राता (त्वे) त्वयि (रायः) विद्यादिसुवर्णधनम् (मे) मयि (रायः) धनम् (मा) निषेधार्थे (वयम्) मनुष्याः (रायः) उक्तधनस्य (पोषेण) पुष्यन्ति येन तेन (वि) विगतार्थे (यौष्म) युक्ता भवेम (तोतः) तुवन्ति जानन्ति प्राप्नुवन्ति हिंसन्ति वा येन सः। अत्र ‘तु गतिवृद्धिहिंसासु’ इति धातोर्बाहुलकादौणादिकस्तन् प्रत्ययः (रायः) विद्याराज्यसमृद्धयः। अयं मन्त्रः (शत॰३.३.१.४-११) व्याख्यातः॥२२॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैर्या सत्यविद्याधर्मसंस्कृता वाग् विद्याक्रियाभ्यां संप्रयुक्ता विद्युदादिविद्यास्ति सा सर्वेभ्य उपदिश्य संग्राह्य, सुखदुःखव्यवस्थां समानां विदित्वा सर्वमैश्वर्य्यं परोपकारे संयोज्य सदा सुखयितव्यम्। नैवं कदाचिद् व्यवहारः कर्त्तव्यो येन स्वस्यान्यस्यवैश्वर्य्यह्रासः कदाचिद् भवेदिति॥२२॥
Subject
पुनस्ते कीदृश्यावित्युपदिश्यते॥
Anvaya
हे विद्वन् मनुष्य! त्वं यथा या देवयजनेऽदित्याः पृथिव्या इडायाः स्वाहा घृतवत्पदम(स्य)स्ति, यामहं आ जिघर्मि, त्वा तां त्वमपि जिघृहि, याऽस्मे अस्मासु रमते सा युष्मास्वपि रमस्व रमताम्, यामहं रमयामि तां भवानपि स्वस्मिन् रमयतु। योऽस्मे अस्माकं बन्धुरस्ति, स ते तवाप्यस्तु, यो रायो धनसमूहस्त्वय्यस्ति, स मे मय्यप्यस्तु। तोतो भवान् या रायो विद्याधनसमृद्धीः प्राप्नोति, ता मे मय्यपि सन्तु, या मयि वर्त्तन्ते, तास्त्वे त्वय्यपि सन्त्वेता रायः समृद्धयः सन्ति ताः सर्वेषा सुखायापि संप्रयुक्ताः सन्तु, यथैवं जानन्तो निश्चिन्वन्तोऽनुतिष्ठन्तो यूयं वयं च रायस्पोषेण कदाचिन्मा वियौष्म कदाचिद् वियुक्ता मा भवेम, तथैव सर्वे भवन्तु॥२२॥