Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 4 / Mantra 21

37 Mantra
4/21
Devata- वाग्विद्युतौ देवते Rishi- वत्स ऋषिः Chhand- विराट् आर्षी बृहती, Swara- मध्यमः
Mantra with Swara
वस्व्य॒स्यदि॑तिरस्यादि॒त्यासि॑ रु॒द्रासि॑ च॒न्द्रासि॑। बृह॒स्पति॑ष्ट्वा सु॒म्ने र॑म्णातु रु॒द्रो वसु॑भि॒राच॑के॥२१॥

वस्वी॑। अ॒सि॒। अदि॑तिः। अ॒सि॒। आ॒दि॒त्या। अ॒सि॒। रु॒द्रा। अ॒सि॒। च॒न्द्रा। अ॒सि॒। बृह॒स्पतिः॑। त्वा॒। सु॒म्ने। र॒म्णा॒तु॒। रु॒द्रः। वसु॑भि॒रिति॒॑ वसु॑ऽभिः। आ। च॒के॒ ॥२१॥

Mantra without Swara
वस्व्यस्यदितिरस्यादित्यासि रुद्रासि चन्द्रासि । बृहस्पतिष्ट्वा सुम्ने रम्णातु रुद्रो वसुभिरा चके ॥

वस्वी। असि। अदितिः। असि। आदित्या। असि। रुद्रा। असि। चन्द्रा। असि। बृहस्पतिः। त्वा। सुम्ने। रम्णातु। रुद्रः। वसुभिरिति वसुऽभिः। आ। चके॥२१॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(वस्वी) याऽग्न्यादिपदार्थाख्यवसुविद्यासम्बन्धिनी वसुभिश्चतुर्विंशतिवर्षकृतब्रह्मचर्य्यैः प्राप्ता सा (असि) अस्ति। अत्र सर्वत्र व्यत्ययः (अदितिः) प्रकाशवन्नित्या। अदितिर्द्यौरिति प्रकाशकारकोऽर्थो गृह्यते (असि) अस्ति (आदित्या) याऽऽदित्यवदर्थविद्याप्रकाशिकाऽष्टचत्वारिंशत् संवत्सरपर्यन्तानुष्ठितब्रह्मचर्य्यैः स्वीकृता सा (असि) अस्ति (रुद्रा) सा प्राणवायुसम्बन्धिनी चतुश्चत्वारिंशद्धायनावधिसेवितब्रह्मचर्यैः स्वीकृता सा (असि) अस्ति (चन्द्रा) आह्लादयित्री (असि) (बृहस्पतिः) परमेश्वरो विद्वान् वा (त्वा) ताम् (सुम्ने) सुखे (रम्णातु) रमयतु। अत्रान्तर्गतो ण्यर्थोः विकरणव्यत्ययश्च (रुद्रः) दुष्टानां रोदयिता विद्वान् (वसुभिः) उषितसर्वविद्यैर्विद्वद्भिः सह (आ) समन्तात् (चके) कामितवान् कामयतां वा, अत्र पक्षे लोडर्थे लिट्। आचक इति कान्तिकर्मसु पठितम्। (निघं॰२.६)। अयं मन्त्रः (शत॰३.२.१.१-२) व्याख्यातः॥२१॥
Essence
अत्र श्लेषवाचकलुप्तोपमालङ्कारौ। यथा ये वाग्विद्युतौ प्राणपृथिव्यादिभिः सह वर्त्तमाने अनेकव्यवहारहेतू स्तो ये जितेन्द्रियादिधर्मपुरस्सरं यथायोग्यं कृतब्रह्मचर्यैर्मनुष्यैर्विज्ञानेन क्रियासु संप्रयोजिते सत्यौ वाग्विद्युतौ बहुसुखकारिके जायेते, एतां त्वमपि नित्यं सेवस्व॥२१॥
Subject
पुनस्ते कीदृश्यावित्युपदिश्यते॥
Anvaya
हे विद्वन् मनुष्य! यथा या वस्व्यस्त्यदितिर(स्य)स्ति रुद्रास्यस्त्यादित्या(स्य)स्ति चन्द्रा(स्य)स्ति, यां