Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 4 / Mantra 14

37 Mantra
4/14
Devata- अग्निर्देवता Rishi- आङ्गिरस ऋषयः Chhand- स्वराट् आर्षी उष्णिक्, Swara- ऋषभः
Mantra with Swara
अग्ने॒ त्वꣳ सु जा॑गृहि व॒यꣳ सु म॑न्दिषीमहि। रक्षा॑ णो॒ऽअप्र॑युच्छन् प्र॒बुधे॑ नः॒ पुन॑स्कृधि॥१४॥

अग्ने॑। त्वम्। सु। जा॒गृ॒हि॒। व॒यम्। सु। म॒न्दि॒षी॒म॒हि॒। रक्ष॑। नः॒। अप्र॑युच्छ॒न्नित्यप्र॑ऽयुच्छन्। प्र॒बुध॒ इति॑ प्र॒ऽबुधे॑। न॒। पु॒न॒रिति॒ पुनः॑। कृ॒धि॒ ॥१४॥

Mantra without Swara
अग्ने त्वँ सु जागृहि वयँ सु मन्दिषीमहि । रक्षा णो अप्रयुच्छन्प्रबुधे नः पुनस्कृधि ॥

अग्ने। त्वम्। सु। जागृहि। वयम्। सु। मन्दिषीमहि। रक्ष। नः। अप्रयुच्छन्नित्यप्रऽयुच्छन्। प्रबुध इति प्रऽबुधे। न। पुनरिति पुनः। कृधि॥१४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अग्ने) अयमग्निः (त्वम्) यः (सु) श्रैष्ठ्ये (जागृहि) जागर्त्ति। अत्र व्यत्ययो लडर्थे लोट् च (वयम्) कर्मानुष्ठातारो नित्यं जागरिताः (सु) शोभने (मन्दिषीमहि) शयीमहि (रक्ष) रक्षति। अत्र द्व्यचोऽतस्तिङः। [अष्टा॰६.३.१३५] इति दीर्घः (नः) अस्मान् (अप्रयुच्छन्) प्रमादमकुर्वन् (प्रबुधे) जागरिते (नः) अस्मान् (पुनः) (कृधि) करोति। अत्र व्यत्ययो लडर्थे लोट् च। अयं मन्त्रः (शत॰३.२.२.२२) व्याख्यातः॥१४॥
Essence
मनुष्यैर्योऽग्निः शयनजागरणजीवनमरणहेतुरस्ति स युक्त्या संप्रयोक्तव्यः॥१४॥
Subject
पुनरग्निगुणा उपदिश्यन्ते॥
Anvaya
अग्ने त्वं योऽग्निः प्रबुधे नोऽस्मान् सुजागृहि सुष्ठु जागरयति, येन वयं सुमन्दिषीमहि, योऽप्रयुच्छन्नोस्मान् रक्ष रक्षति, प्रयुच्छतश्च हिनस्ति, यो नोऽस्मान् पुनः पुनरेवं कृधि करोति, सोऽस्माभिर्युक्त्या सम्यक् सेवनीयः॥१४॥