Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 4 / Mantra 12

37 Mantra
4/12
Devata- आपो देवताः Rishi- आङ्गिरस ऋषयः Chhand- भूरिक् ब्राह्मी अनुष्टुप्, Swara- गान्धारः
Mantra with Swara
श्वा॒त्राः पी॒ता भ॑वत यू॒यमा॑पोऽअ॒स्माक॑म॒न्तरु॒दरे॑ सु॒शेवाः॑। ताऽअ॒स्मभ्य॑मय॒क्ष्माऽअ॑नमी॒वाऽअना॑गसः॒ स्व॑दन्तु दे॒वीर॒मृता॑ऽऋता॒वृधः॑॥१२॥

श्वा॒त्राः पी॒ताः। भ॒व॒त॒। यू॒यम्। आ॒पः॒। अ॒स्माक॑म्। अ॒न्तः। उ॒दरे। सु॒शेवा॒ इति॑ सु॒ऽशे॑वाः। ताः। अ॒स्मभ्य॑म्। अ॒य॒क्ष्माः। अ॒न॒मी॒वाः। अना॑गसः। स्वद॑न्तु। दे॒वीः। अ॒मृताः॑। ऋ॒ता॒वृधः॑। ऋ॒त॒वृध॒ इत्यृ॑त॒ऽवृधः॑ ॥१२॥

Mantra without Swara
श्वात्राः पीता भवत यूयमापो अस्माकमन्तरुदरे सुशेवाः । ता अस्मभ्यमयक्ष्मा अनमीवा अनागसः स्वदन्तु देवीरमृता ऋतावृधः ॥

श्वात्राः पीताः। भवत। यूयम्। आपः। अस्माकम्। अन्तः। उदरे। सुशेवा इति सुऽशेवाः। ताः। अस्मभ्यम्। अयक्ष्माः। अनमीवाः। अनागसः। स्वदन्तु। देवीः। अमृताः। ऋतावृधः। ऋतवृध इत्यृतऽवृधः॥१२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(श्वात्राः) श्वात्रं प्रशस्तं विज्ञानं धनं वा विद्यते यासां ताः। अत्र अर्श आदिभ्योऽच्। (अष्टा॰५.२.१२७) इति प्रशंसार्थेऽच्। श्वात्रमिति पदनामसु पठितम्। (निघं॰४.२) धननामसु च। (निघं॰२.१०) (पीताः) कृतपानाः (भवत) नित्यं सम्पद्येरन् (यूयम्) एताः (आपः) प्राणा जलादयो वा (अस्माकम्) मनुष्याणाम् (अन्तः) मध्ये (उदरे) शरीराभ्यन्तरे (सुशेवाः) सुष्ठु शेवं सुख याभ्यस्ताः। शेवमिति सुखनामसु पठितम्। (निघं॰३.६) (अस्मभ्यम्) मनुष्यादिभ्यः (अयक्ष्माः) अविद्यमानो यक्ष्मा क्षयरोगे याभ्यस्ताः (अनमीवाः) अविद्यमानोऽमीवा ज्वरादिरोगसमूहो याभ्यस्ताः (अनागसः) न विद्यतेऽगः पापं दोषो यासु ता निर्दोषाः (स्वदन्तु) सुष्ठु सेवन्ताम् (देवीः) दिव्यगुणसम्पन्नाः। अत्र वा छन्दसि। [अष्टा॰६.१.१०६] इति जसः पूर्वसवर्णत्वम् (अमृताः) नाशरहिता अमृतरसाः (ऋतावृधः) या ऋतं सत्यं वर्धयन्ति ताः। अयं मन्त्रः (शत॰३.२.२.१९) व्याख्यातः॥१२॥
Essence
मनुष्यैर्विद्वत्सङ्गेन सुशिक्षया विद्यां प्राप्य सर्वथा सुपरीक्षिताः शोधिताः संस्कृताः शरीरात्मबलवर्धका रोगविच्छेदका जलादयः पदार्थाः सेवनीयाः। नहि विद्याऽऽरोग्याभ्यां विना कश्चिदपि निरन्तरं कर्म कर्तुं शक्नोति, तस्मादेतत् सर्वदाऽनुष्ठेयम्॥१२॥
Subject
एतदनुष्ठायाग्रे मनुष्यैः किं किं कर्त्तव्यमित्युपदिश्यते॥
Anvaya
हे मनुष्या! या अस्माभिः पीताः अस्माकमन्तरुदरे स्थिता अस्मभ्यं श्वात्राः सुशेवा अयक्ष्मा अनमीवा अनागस ऋतावृधोऽमृता देवीर्देव्य आपो भवन्ति, ता भवन्तः स्वदन्तु सुसेवन्ताम्। तदेतदनुष्ठाय यूयं सुखिनो भवत॥१२॥