Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 4 / Mantra 10

37 Mantra
4/10
Devata- यज्ञो देवता Rishi- आङ्गिरस ऋषयः Chhand- निचृत् आर्षी जगती,साम्नी त्रिष्टुप् Swara- निषादः
Mantra with Swara
ऊर्ग॑स्याङ्गिर॒स्यूर्ण॑म्रदा॒ऽऊर्जं॒ मयि॑ धेहि। सोम॑स्य नी॒विर॑सि॒ विष्णोः॒ शर्मा॑सि॒ शर्म॑ यज॑मान॒स्येन्द्र॑स्य॒ योनि॑रसि सुऽस॒स्याः कृ॒षीस्कृ॑धि। उच्छ्र॑यस्व वनस्पतऽऊ॒र्ध्वो मा॑ पा॒ह्यꣳह॑स॒ऽआस्य य॒ज्ञस्यो॒दृचः॑॥१०॥

ऊर्क्। अ॒सि॒। आ॒ङ्गि॒र॒सि॒। ऊर्ण॑म्रदा॒ इत्यूर्ण॑ऽम्रदाः। ऊर्ज॑म्। मयि॑। धे॒हि॒। सोम॑स्य। नी॒विः। अ॒सि॒। विष्णोः॑। शर्म॑। अ॒सि॒। शर्म॑। यज॑मानस्य। इन्द्र॑स्य। योनिः॑। अ॒सि॒। सु॒स॒स्या इति॑ सुऽस॒स्याः। कृ॒षीः। कृ॒धि॒। उत्। श्र॒य॒स्व॒। व॒न॒स्प॒ते॒। ऊ॒र्ध्वः। मा॒। पा॒हि॒। अꣳह॑सः। आ। अ॒स्य। य॒ज्ञस्य॑। उ॒दृच॒ इत्यु॒त्ऽऋचः॒ ॥१०॥

Mantra without Swara
ऊर्गस्याङ्गिरस्यूर्णम्रदा ऊर्जं मयि धेहि । सोमस्य नीविरसि विष्णोः शर्मासि शर्म यजमानस्येन्द्रस्य योनिरसि सुसस्याः कृषीस्कृधि । उच्छ्रयस्व वनस्पत ऊर्ध्वा मा पाह्यँहस आस्य यज्ञस्योदृचः ॥

ऊर्क्। असि। आङ्गिरसि। ऊर्णम्रदा इत्यूर्णऽम्रदाः। ऊर्जम्। मयि। धेहि। सोमस्य। नीविः। असि। विष्णोः। शर्म। असि। शर्म। यजमानस्य। इन्द्रस्य। योनिः। असि। सुसस्या इति सुऽसस्याः। कृषीः। कृधि। उत्। श्रयस्व। वनस्पते। ऊर्ध्वः। मा। पाहि। अꣳहसः। आ। अस्य। यज्ञस्य। उदृच इत्युत्ऽऋचः॥१०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(ऊर्क्) पराक्रमान्नादिप्रदा शिल्पविद्या (असि) अस्ति। अत्र सर्वत्र व्यत्ययः (आङ्गिरसि) याङ्गिरीभिरग्न्यादिभिर्निर्वृत्ता सिद्धा सा [शिल्पविद्या᳕। ऊवटमहीधराभ्यामिदं निघातत्वात् सम्बोधनान्तं पदमबुद्ध्वा व्याख्यातमत एतयोः स्वरज्ञानमपि नास्त्यर्थज्ञानस्य तु का कथा? (ऊर्णम्रदाः) ऊर्णमाच्छादनं मृद्नन्ति संत्वेषन्ति यया सा (ऊर्जम्) पराक्रममन्नादिकं वा (मयि) शिल्पिनि (धेहि) दधाति (सोमस्य) उत्पन्नस्य पदार्थसमूहस्य (नीविः) या नितरां व्ययति संवृणोति। नौ व्यो यलोपः [पूर्वस्य च दीर्घः᳕। (उणा॰४.१३७) इत्यौणादिकसूत्रेण व्येञ् संवरण इत्यस्मादिण् प्रत्ययः, स च डित्, डित्त्वादाकारलोपः। यलोपस्तु सूत्रेणैव पूर्वपदस्य च दीर्घत्वम् (असि) अस्ति (विष्णोः) शिल्पविद्याव्यापकस्य विदुषः सकाशात् प्राप्यम् (शर्म) सुखम् (असि) अस्ति (शर्म) सुखम् (यजमानस्य) शिल्पक्रियाविदः (इन्द्रस्य) परमैश्वर्य्येण युक्तस्य योजकस्य वा (योनिः) निमित्तम् (असि) भवति (सुसस्याः) शोभनानि सस्यानि धान्यादीनि याभ्यस्ताः (कृषीः) कर्षन्ति विलिखन्ति याभिः क्रियाभिस्ताः। अत्र कःकरत्करति॰। (अष्टा॰८.३.५०) इति विसर्जनीयस्य सत्वम् (कृधि) कुरु, कारय वा (उत्) उत्कृष्टार्थे (श्रयस्व) सेवस्व, सेवते वा (वनस्पते) वनानां विद्याप्रकाशकानां पतिः पालयिता तत्सम्बुद्धौ, वृक्षावयवो वा (ऊर्ध्वः) ऊर्ध्वं स्थित ऊर्ध्वं स्थापितो वा (मा) माम् (पाहि) रक्ष, रक्षति वा (अंहसः) पापात् तत्फलाद् दुःखाद्वा (आ) समन्तात् (अस्य) प्रत्यक्षमनुष्ठीयमानस्य (यज्ञस्य) शिल्पविद्यासाध्यस्य (उदृचः) उक्तार्थस्य। अयं मन्त्रः (शत॰३.२.१.१४-३५) व्याख्यातः॥१०॥
Essence
मनुष्यैर्विद्वद्भ्यः शिल्पविद्यां साक्षात्कृत्यैतां प्रचार्य्य सर्वे मनुष्याः समृद्धाः कार्य्याः॥१०॥
Subject
स शिल्पविद्यो यज्ञः कीदृशोऽस्तीत्युपदिश्यते॥
Anvaya
हे वनस्पते विद्वंस्त्वं याङ्गिरस्यूर्णम्रदा ऊर्क् शिल्पविद्यास्ति, योर्जं दधाति, या सोमस्य नीविरस्ति, या विष्णोर्यजमानस्येन्द्रस्य योनिरस्ति। याऽस्योदृचो विष्णोर्यज्ञस्य शर्म सुखकारिकास्ति, तामाधेहि। सुसस्याः कृषीस्कृधि कुरु कारय वोर्ध्वं मामुच्छ्रयस्व सुसस्याः कृषीश्चांहसो मां पाहि, विमानादिषु यानेषु या वनस्पतिरूर्ध्वं स्थाप्यते तमप्युच्छ्रयस्व॥१०॥