Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 39 / Mantra 8

13 Mantra
39/8
Devata- अग्न्यादयो लिङगोक्ता देवताः Rishi- दीर्घतमा ऋषिः Chhand- निचृदत्यष्टिः Swara- गान्धारः
Mantra with Swara
अ॒ग्निꣳ हृद॑येना॒शनि॑ꣳहृदया॒ग्रेण॑ पशु॒पतिं॑ कृत्स्न॒हृद॑येन भ॒वं य॒क्ना। श॒र्वं मत॑स्नाभ्या॒मीशा॑नं म॒न्युना॑ महादे॒वम॑न्तः पर्श॒व्येनो॒ग्रं दे॒वं व॑नि॒ष्ठुना॑ वसिष्ठ॒हनुः॒शिङ्गी॑नि को॒श्याभ्या॑म्॥८॥

अ॒ग्निम्। हृद॑येन। अ॒शानि॑म्। हृ॒द॒या॒ग्रेणेति॑ हृदयऽअ॒ग्रेण॑। प॒शु॒पति॒मिति॑ पशु॒ऽपति॑म्। कृ॒त्स्न॒हृद॑ये॒नेति॑ कृत्स्न॒ऽहृद॑येन। भ॒वम्। य॒क्ना ॥ श॒र्वम्। मत॑स्नाभ्याम्। ईशा॑नम्। म॒न्युना॑। म॒हा॒दे॒वमिति॑ महाऽदे॒वम्। अ॒न्तः॒ऽप॒र्श॒व्येन॑। उ॒ग्रम्। दे॒वम्। व॒नि॒ष्ठुना॑। व॒सि॒ष्ठ॒हनु॒रिति॑ वसिष्ठ॒ऽहनुः॑। शिङ्गी॑नि। को॒श्याभ्या॑म् ॥८ ॥

Mantra without Swara
अग्निँ हृदयेनाशनिँ हृदयाग्रेण पशुपतिङ्कृत्स्नहृदयेन भवँयक्ना । शर्वम्मतस्नाभ्यामीशानम्मन्युना महादेवमन्तःपर्शव्येनोग्रन्देवँवनिष्ठुना वसिष्ठहनुः शिङ्गीनि कोश्याभ्याम् ॥

अग्निम्। हृदयेन। अशानिम्। हृदयाग्रेणेति हृदयऽअग्रेण। पशुपतिमिति पशुऽपतिम्। कृत्स्नहृदयेनेति कृत्स्नऽहृदयेन। भवम्। यक्ना॥ शर्वम्। मतस्नाभ्याम्। ईशानम्। मन्युना। महादेवमिति महाऽदेवम्। अन्तःऽपर्शव्येन। उग्रम्। देवम्। वनिष्ठुना। वसिष्ठहनुरिति वसिष्ठऽहनुः। शिङ्गीनि। कोश्याभ्याम्॥८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अग्निम्) पावकम् (हृदयेन) हृदयावयवेन (अशनिम्) विद्युतम् (हृदयाग्रेण) हृदयस्य पुरोभागेन (पशुपतिम्) पशूनां पालकं जगद्धर्त्तारं रुद्रं सर्वप्राणम् (कृत्स्नहृदयेन) संपूर्णहृदयावयवेन (भवम्) यस्सर्वत्र भवति तम् (यक्ना) यकृता शरीराऽवयवेन (शर्वम्) विज्ञातारम् (मतस्नाभ्याम्) हृदयपार्श्वाऽवयवाभ्याम् (ईशानम्) सर्वस्य जगतः स्वामिनम् (मन्युना) दुष्टाचारिणः पापं च प्रति वर्त्तमानेन क्रोधेन (महादेवम्) महांश्चासौ देवश्च तं परमात्मानं (अन्तःपर्शव्येन) अन्तःपार्श्वावयवभावेन (उग्रम्) तीक्ष्णस्वभावम् (देवम्) देदीप्यमानम् (वनिष्ठुना) आन्त्रविशेषेण (वसिष्ठहनुः) वसिष्ठस्यातिशयेन वासहेतोर्हनुरिव हनुर्यस्य तम्। अत्र सुपां सुलुग् [अ॰७.१.३९] इत्यमः स्थाने सुः (शिङ्गीनि) ज्ञातुं प्राप्तुं योग्यानि। अत्र स्रगिधातोः पृषोदरादिनाभीष्टरूपसिद्धिः। (कोश्याभ्याम्) कोश उदरे भवाभ्यां मांसपिण्डाभ्याम्॥८॥
Essence
ये मनुष्याः सर्वाङ्गैर्धर्माचरणं विद्याग्रहणं सत्सङ्गं जगदीश्वरोपासनं च कुर्वन्ति, ते वर्त्तमानभविष्यतोर्जन्मनोः सर्वाणि सुखानि प्राप्नुवन्ति॥८॥
Subject
के जना उभयजन्मनोः सुखमाप्नुवन्तीत्याह॥
Anvaya
हे मनुष्याः! ये ते मृत जीवा हृदेयनाग्निं हृदयाग्रेणाशनिं कृत्स्नहृदयेन पशुपतिं यक्ना भवं मतस्नाभ्यां शर्वं मन्युनेशानमन्तःपर्शव्येन महादेवमुग्रं देवं वनिष्ठुना वसिष्ठहनुः कोश्याभ्यां शिङ्गीनि प्राप्नुवन्तीति यूयं विजानीत॥८॥