Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 39 / Mantra 7

13 Mantra
39/7
Devata- मरुतो देवताः Rishi- दीर्घतमा ऋषिः Chhand- भुरिग्गायत्री Swara- षड्जः
Mantra with Swara
उ॒ग्रश्च॑ भी॒मश्च॒ ध्वान्तश्च॒ धुनि॑श्च।सा॒स॒ह्वाँश्चा॑भियु॒ग्वा च॑ वि॒क्षिपः॒ स्वाहा॑॥७॥

उ॒ग्रः। च॒। भी॒मः। च॒। ध्वा᳖न्त॒ इति॒ धुऽआ॑न्तः। च॒। धुनिः॑। च॒ ॥ सा॒स॒ह्वान्। स॒स॒ह्वानिति॑ सस॒ह्वान्। च॒। अ॒भि॒यु॒ग्वेत्य॑भिऽयु॒ग्वा। च॒। वि॒क्षिप॒ इति॑ वि॒क्षिपः॑। स्वाहा॑ ॥७ ॥

Mantra without Swara
उग्रश्च भीमश्च ध्वान्तश्च धुनिश्च । सासह्वाँश्चाभियुग्वा च विक्षिपः स्वाहा ॥

उग्रः। च। भीमः। च। ध्वान्त इति धुऽआन्तः। च। धुनिः। च॥ सासह्वान्। ससह्वानिति ससह्वान्। च। अभियुग्वेत्यभिऽयुग्वा। च। विक्षिप इति विक्षिपः। स्वाहा॥७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(उग्रः) तीव्रस्वभावः (च) शान्तः (भीमः) बिभेति यस्मात् स भयंकरः (च) निर्भयः (ध्वान्तः) ध्वान्तमन्धकारं प्राप्तः (च) प्रकाशं गतः (धुनिः) कम्पमानः (च) निष्कम्पः (सासह्वान्) भृशं सहमानः (च) असहमानो वा (अभियुग्वा) योऽभितो युङ्क्ते सः (च) वियुक्त (विक्षिपः) यो विक्षिपति विक्षेपं प्राप्नोति सः (स्वाहा) स्वकीयया क्रियया॥७॥
Essence
हे मनुष्याः! ये जीवाः पापाचरणास्त उग्रा, ये धर्माचरणास्ते शान्ता, ये भयप्रदास्ते भीमा, ये भयं प्राप्तास्ते भीता, येऽजितेन्द्रियास्ते चञ्चला, ये जितेन्द्रियास्तेऽचञ्चलाः स्वस्वकर्मफलानि सहमानाः संयुक्ता विक्षेपं प्राप्ताः सन्तोऽत्र जगति नित्यं भ्रमन्तीति विजानीत॥७॥
Subject
पुनः के जीवाः किं गुणाः सन्तीत्याह॥
Anvaya
हे मनुष्याः! मरणं प्राप्तो जीवः स्वाहोग्रश्च ध्वान्तश्चधुनिश्च सासह्वांश्चाभियुग्वा च विक्षिपो जायते॥७॥